गोपिकानां परम आह्लादः

गोपिकानां परम आह्लादः

Back to Narayaneeyam

Script

Translation

अथ श्रीमन्नारायणीयम्
अष्टषष्टितमम् दशकम्
गोपिकानां परम आह्लाद:
तव विलोकनाद्गोपिकाजना: प्रमदसङ्कुला: पङ्कजेक्षण ।
अमृतधारया संप्लुता इव स्तिमिततां दधुस्त्वत्पुरोगता: ॥१॥
तदनु काचन त्वत्कराम्बुजं सपदि गृह्णती निर्विशङ्कितम् । घनपयोधरे सन्निधाय सा पुलकसंवृता तस्थुषी चिरम् ॥२॥
तव विभोऽपरा कोमलं भुजं निजगलान्तरे पर्यवेष्टयत् । गलसमुद्गतं प्राणमारुतं प्रतिनिरुन्धतीवातिहर्षुला ॥३॥
अपगतत्रपा कापि कामिनी तव मुखाम्बुजात् पूगचर्वितम् । प्रतिगृहय्य तद्वक्त्रपङ्कजे निदधती गता पूर्णकामताम् ॥४॥
विकरुणो वने संविहाय मामपगतोऽसि का त्वामिह स्पृशेत् । इति सरोषया तावदेकया सजललोचनं वीक्षितो भवान् ॥५॥
इति मुदाऽऽकुलैर्वल्लवीजनै: सममुपागतो यामुने तटे । मृदुकुचाम्बरै: कल्पितासने घुसृणभासुरे पर्यशोभथा: ॥६॥
कतिविधा कृपा केऽपि सर्वतो धृतदयोदया: केचिदाश्रिते । कतिचिदीदृशा मादृशेष्वपीत्यभिहितो भवान् वल्लवीजनै: ॥७॥
अयि कुमारिका नैव शङ्क्यतां कठिनता मयि प्रेमकातरे । मयि तु चेतसो वोऽनुवृत्तये कृतमिदं मयेत्यूचिवान् भवान् ॥८॥
अयि निशम्यतां जीववल्लभा: प्रियतमो जनो नेदृशो मम । तदिह रम्यतां रम्ययामिनीष्वनुपरोधमित्यालपो विभो ॥९॥
इति गिराधिकं मोदमेदुरैर्व्रजवधूजनै: साकमारमन् । कलितकौतुको रासखेलने गुरुपुरीपते पाहि मां गदात् ॥१०॥