गोपी जन आह्लादनम्

गोपी जन आह्लादनम्

Back to Narayaneeyam

Script

Translation

अथ श्रीमन्नारायणीयम्
षट्षष्टितमम् दशकम्
गोपी जन आह्लादनम्
उपयातानां सुदृशां कुसुमायुधबाणपातविवशानाम् ।
अभिवाञ्छितं विधातुं कृतमतिरपि ता जगाथ वाममिव ॥१॥
गगनगतं मुनिनिवहं श्रावयितुं जगिथ कुलवधूधर्मम् । धर्म्यं खलु ते वचनं कर्म तु नो निर्मलस्य विश्वास्यम् ॥२॥
आकर्ण्य ते प्रतीपां वाणीमेणीदृश: परं दीना: । मा मा करुणासिन्धो परित्यजेत्यतिचिरं विलेपुस्ता: ॥३॥
तासां रुदितैर्लपितै: करुणाकुलमानसो मुरारे त्वम् । ताभिस्समं प्रवृत्तो यमुनापुलिनेषु काममभिरन्तुम् ॥४॥
चन्द्रकरस्यन्दलसत्सुन्दरयमुनातटान्तवीथीषु । गोपीजनोत्तरीयैरापादितसंस्तरो न्यषीदस्त्वम् ॥५॥
सुमधुरनर्मालपनै: करसंग्रहणैश्च चुम्बनोल्लासै: । गाढालिङ्गनसङ्गैस्त्वमङ्गनालोकमाकुलीचकृषे ॥६॥
वासोहरणदिने यद्वासोहरणं प्रतिश्रुतं तासाम् । तदपि विभो रसविवशस्वान्तानां कान्त सुभ्रुवामदधा: ॥७॥
कन्दलितघर्मलेशं कुन्दमृदुस्मेरवक्त्रपाथोजम् । नन्दसुत त्वां त्रिजगत्सुन्दरमुपगूह्य नन्दिता बाला: ॥८॥
विरहेष्वङ्गारमय: शृङ्गारमयश्च सङ्गमे हि त्वम् नितरामङ्गारमयस्तत्र पुनस्सङ्गमेऽपि चित्रमिदम् ॥९॥
राधातुङ्गपयोधरसाधुपरीरम्भलोलुपात्मानम् । आराधये भवन्तं पवनपुराधीश शमय सकलगदान् ॥१०॥