गोपीनां भगवत् समीप गमनम्

गोपीनां भगवत् समीप गमनम्

Back to Narayaneeyam

Script

Translation

अथ श्रीमन्नारायणीयम्
पञ्चषष्टितमम् दशकम्
गोपीनां भगवत् समीप गमनम्
गोपीजनाय कथितं नियमावसाने
मारोत्सवं त्वमथ साधयितुं प्रवृत्त: । सान्द्रेण चान्द्रमहसा शिशिरीकृताशे प्रापूरयो मुरलिकां यमुनावनान्ते ॥१॥
सम्मूर्छनाभिरुदितस्वरमण्डलाभि: सम्मूर्छयन्तमखिलं भुवनान्तरालम् । त्वद्वेणुनादमुपकर्ण्य विभो तरुण्य: तत्तादृशं कमपि चित्तविमोहमापु: ॥२॥
ता गेहकृत्यनिरतास्तनयप्रसक्ता: कान्तोपसेवनपराश्च सरोरुहाक्ष्य: । सर्वं विसृज्य मुरलीरवमोहितास्ते कान्तारदेशमयि कान्ततनो समेता: ॥३॥
काश्चिन्निजाङ्गपरिभूषणमादधाना वेणुप्रणादमुपकर्ण्य कृतार्धभूषा: । त्वामागता ननु तथैव विभूषिताभ्य: ता एव संरुरुचिरे तव लोचनाय ॥४॥
हारं नितम्बभुवि काचन धारयन्ती काञ्चीं च कण्ठभुवि देव समागता त्वाम् । हारित्वमात्मजघनस्य मुकुन्द तुभ्यं व्यक्तं बभाष इव मुग्धमुखी विशेषात् ॥५॥
काचित् कुचे पुनरसज्जितकञ्चुलीका व्यामोहत: परवधूभिरलक्ष्यमाणा । त्वामाययौ निरुपमप्रणयातिभार- राज्याभिषेकविधये कलशीधरेव ॥६॥
काश्चित् गृहात् किल निरेतुमपारयन्त्य: त्वामेव देव हृदये सुदृढं विभाव्य । देहं विधूय परचित्सुखरूपमेकं त्वामाविशन् परमिमा ननु धन्यधन्या: ॥७॥
जारात्मना न परमात्मतया स्मरन्त्यो नार्यो गता: परमहंसगतिं क्षणेन । तं त्वां प्रकाशपरमात्मतनुं कथञ्चित् चित्ते वहन्नमृतमश्रममश्नुवीय ॥८॥
अभ्यागताभिरभितो व्रजसुन्दरीभि: मुग्धस्मितार्द्रवदन: करुणावलोकी । निस्सीमकान्तिजलधिस्त्वमवेक्ष्यमाणो विश्वैकहृद्य हर मे पवनेश रोगान् ॥९॥