गोवर्द्धन बलिः
गोवर्द्धन बलिः
Script
Translation
Previous
विप्र पत्नी अनुग्रहः
Next
गोवर्द्धन उद्धारणम्
अथ श्रीमन्नारायणीयम्
द्विषष्टितमम् दशकम्
गोवर्द्धन बलि:
कदाचिद्गोपालान् विहितमखसम्भारविभवान्
निरीक्ष्य त्वं शौरे मघवमदमुद्ध्वंसितुमना: ।
विजानन्नप्येतान् विनयमृदु नन्दादिपशुपान्
अपृच्छ: को वाऽयं जनक भवतामुद्यम इति ॥१॥
बभाषे नन्दस्त्वां सुत ननु विधेयो मघवतो
मखो वर्षे वर्षे सुखयति स वर्षेण पृथिवीम् ।
नृणां वर्षायत्तं निखिलमुपजीव्यं महितले
विशेषादस्माकं तृणसलिलजीवा हि पशव: ॥२॥
इति श्रुत्वा वाचं पितुरयि भवानाह सरसं
धिगेतन्नो सत्यं मघवजनिता वृष्टिरिति यत् ।
अदृष्टं जीवानां सृजति खलु वृष्टिं समुचितां
महारण्ये वृक्षा: किमिव बलिमिन्द्राय ददते ॥३॥
इदं तावत् सत्यं यदिह पशवो न: कुलधनं
तदाजीव्यायासौ बलिरचलभर्त्रे समुचित: ।
सुरेभ्योऽप्युत्कृष्टा ननु धरणिदेवा: क्षितितले
ततस्तेऽप्याराध्या इति जगदिथ त्वं निजजनान् ॥४॥
भवद्वाचं श्रुत्वा बहुमतियुतास्तेऽपि पशुपा:
द्विजेन्द्रानर्चन्तो बलिमददुरुच्चै: क्षितिभृते ।
व्यधु: प्रादक्षिण्यं सुभृशमनमन्नादरयुता:
त्वमादश्शैलात्मा बलिमखिलमाभीरपुरत: ॥५॥
अवोचश्चैवं तान् किमिह वितथं मे निगदितं
गिरीन्द्रो नन्वेष स्वबलिमुपभुङ्क्ते स्ववपुषा ।
अयं गोत्रो गोत्रद्विषि च कुपिते रक्षितुमलं
समस्तानित्युक्ता जहृषुरखिला गोकुलजुष: ॥६॥
परिप्रीता याता: खलु भवदुपेता व्रजजुषो
व्रजं यावत्तावन्निजमखविभङ्गं निशमयन् ।
भवन्तं जानन्नप्यधिकरजसाऽऽक्रान्तहृदयो
न सेहे देवेन्द्रस्त्वदुपरचितात्मोन्नतिरपि ॥७॥
मनुष्यत्वं यातो मधुभिदपि देवेष्वविनयं
विधत्ते चेन्नष्टस्त्रिदशसदसां कोऽपि महिमा ।
ततश्च ध्वंसिष्ये पशुपहतकस्य श्रियमिति
प्रवृत्तस्त्वां जेतुं स किल मघवा दुर्मदनिधि: ॥८॥
त्वदावासं हन्तुं प्रलयजलदानम्बरभुवि
प्रहिण्वन् बिभ्राण: कुलिशमयमभ्रेभगमन: ।
प्रतस्थेऽन्यैरन्तर्दहनमरुदाद्यैर्विहसितो
भवन्माया नैव त्रिभुवनपते मोहयति कम् ॥९॥
सुरेन्द्र: क्रुद्धश्चेत् द्विजकरुणया शैलकृपयाऽ-
प्यनातङ्कोऽस्माकं नियत इति विश्वास्य पशुपान् ।
अहो किन्नायातो गिरिभिदिति सञ्चिन्त्य निवसन्
मरुद्गेहाधीश प्रणुद मुरवैरिन् मम गदान् ॥१०॥
Previous
विप्र पत्नी अनुग्रहः
Next
गोवर्द्धन उद्धारणम्