विप्र पत्नी अनुग्रहः
विप्र पत्नी अनुग्रहः
Script
Translation
Previous
गोपि वस्त्र अपहरणम्
Next
गोवर्द्धन बलिः
अथ श्रीमन्नारायणीयम्
एकषष्टितमम् दशकम्
विप्र पत्नी अनुग्रह:
ततश्च वृन्दावनतोऽतिदूरतो
वनं गतस्त्वं खलु गोपगोकुलै: ।
हृदन्तरे भक्ततरद्विजाङ्गना-
कदम्बकानुग्रहणाग्रहं वहन् ॥१॥
ततो निरीक्ष्याशरणे वनान्तरे
किशोरलोकं क्षुधितं तृषाकुलम् ।
अदूरतो यज्ञपरान् द्विजान् प्रति
व्यसर्जयो दीदिवियाचनाय तान् ॥२॥
गतेष्वथो तेष्वभिधाय तेऽभिधां
कुमारकेष्वोदनयाचिषु प्रभो ।
श्रुतिस्थिरा अप्यभिनिन्युरश्रुतिं
न किञ्चिदूचुश्च महीसुरोत्तमा: ॥३॥
अनादरात् खिन्नधियो हि बालका: ।
समाययुर्युक्तमिदं हि यज्वसु ।
चिरादभक्ता: खलु ते महीसुरा:
कथं हि भक्तं त्वयि तै: समर्प्यते ॥४॥
निवेदयध्वं गृहिणीजनाय मां
दिशेयुरन्नं करुणाकुला इमा: ।
इति स्मितार्द्रं भवतेरिता गता:
ते दारका दारजनं ययाचिरे ॥५॥
गृहीतनाम्नि त्वयि सम्भ्रमाकुला:
चतुर्विधं भोज्यरसं प्रगृह्य ता: ।
चिरंधृतत्वत्प्रविलोकनाग्रहा:
स्वकैर्निरुद्धा अपि तूर्णमाययु: ॥६॥
विलोलपिञ्छं चिकुरे कपोलयो:
समुल्लसत्कुण्डलमार्द्रमीक्षिते ।
निधाय बाहुं सुहृदंससीमनि
स्थितं भवन्तं समलोकयन्त ता: ॥७॥
तदा च काचित्त्वदुपागमोद्यता
गृहीतहस्ता दयितेन यज्वना ।
तदैव सञ्चिन्त्य भवन्तमञ्जसा
विवेश कैवल्यमहो कृतिन्यसौ ॥८॥
आदाय भोज्यान्यनुगृह्य ता: पुन:
त्वदङ्गसङ्गस्पृहयोज्झतीर्गृहम् ।
विलोक्य यज्ञाय विसर्जयन्निमा:
चकर्थ भर्तॄनपि तास्वगर्हणान् ॥९॥
निरूप्य दोषं निजमङ्गनाजने
विलोक्य भक्तिं च पुनर्विचारिभि:
प्रबुद्धतत्त्वैस्त्वमभिष्टुतो द्विजै:
मरुत्पुराधीश निरुन्धि मे गदान् ॥१०॥
Previous
गोपि वस्त्र अपहरणम्
Next
गोवर्द्धन बलिः