गोवर्द्धन उद्धारणम्

गोवर्द्धन उद्धारणम्

Back to Narayaneeyam

Script

Translation

अथ श्रीमन्नारायणीयम्
त्रिषष्टितमम् दशकम्
गोवर्द्धन उद्धारणम्
ददृशिरे किल तत्क्षणमक्षत-
स्तनितजृम्भितकम्पितदिक्तटा: । सुषमया भवदङ्गतुलां गता व्रजपदोपरि वारिधरास्त्वया ॥१॥
विपुलकरकमिश्रैस्तोयधारानिपातै: दिशिदिशि पशुपानां मण्डले दण्ड्यमाने । कुपितहरिकृतान्न: पाहि पाहीति तेषां वचनमजित श्रृण्वन् मा बिभीतेत्यभाणी: ॥२॥
कुल इह खलु गोत्रो दैवतं गोत्रशत्रो: विहतिमिह स रुन्ध्यात् को नु व: संशयोऽस्मिन् । इति सहसितवादी देव गोवर्द्धनाद्रिं त्वरितमुदमुमूलो मूलतो बालदोर्भ्याम् ॥३॥
तदनु गिरिवरस्य प्रोद्धृतस्यास्य तावत् सिकतिलमृदुदेशे दूरतो वारितापे । परिकरपरिमिश्रान् धेनुगोपानधस्तात् उपनिदधदधत्था हस्तपद्मेन शैलम् ॥४॥
भवति विधृतशैले बालिकाभिर्वयस्यै: अपि विहितविलासं केलिलापादिलोले । सविधमिलितधेनूरेकहस्तेन कण्डू- यति सति पशुपालास्तोषमैषन्त सर्वे ॥५॥
अतिमहान् गिरिरेष तु वामके करसरोरुहि तं धरते चिरम् । किमिदमद्भुतमद्रिबलं न्विति त्वदवलोकिभिराकथि गोपकै: ॥६॥
अहह धार्ष्ट्यममुष्य वटोर्गिरिं व्यथितबाहुरसाववरोपयेत् । इति हरिस्त्वयि बद्धविगर्हणो दिवससप्तकमुग्रमवर्षयत् ॥७॥
अचलति त्वयि देव पदात् पदं गलितसर्वजले च घनोत्करे । अपहृते मरुता मरुतां पति: त्वदभिशङ्कितधी: समुपाद्रवत् ॥८॥
शममुपेयुषि वर्षभरे तदा पशुपधेनुकुले च विनिर्गते । भुवि विभो समुपाहितभूधर: प्रमुदितै: पशुपै: परिरेभिषे ॥९॥
धरणिमेव पुरा धृतवानसि क्षितिधरोद्धरणे तव क: श्रम: । इति नुतस्त्रिदशै: कमलापते गुरुपुरालय पालय मां गदात् ॥१०॥