गोपि वस्त्र अपहरणम्

गोपि वस्त्र अपहरणम्

Back to Narayaneeyam

Script

Translation

अथ श्रीमन्नारायणीयम्
षष्टितमम् दशकम्
गोपि वस्त्र अपहरणम्
मदनातुरचेतसोऽन्वहं भवदङ्घ्रिद्वयदास्यकाम्यया ।
यमुनातटसीम्नि सैकतीं तरलाक्ष्यो गिरिजां समार्चिचन् ॥१॥
तव नामकथारता: समं सुदृश: प्रातरुपागता नदीम् । उपहारशतैरपूजयन् दयितो नन्दसुतो भवेदिति ॥२॥
इति मासमुपाहितव्रतास्तरलाक्षीरभिवीक्ष्य ता भवान् । करुणामृदुलो नदीतटं समयासीत्तदनुग्रहेच्छया ॥३॥
नियमावसितौ निजाम्बरं तटसीमन्यवमुच्य तास्तदा । यमुनाजलखेलनाकुला: पुरतस्त्वामवलोक्य लज्जिता: ॥४॥
त्रपया नमिताननास्वथो वनितास्वम्बरजालमन्तिके । निहितं परिगृह्य भूरुहो विटपं त्वं तरसाऽधिरूढवान् ॥५॥
इह तावदुपेत्य नीयतां वसनं व: सुदृशो यथायथम् । इति नर्ममृदुस्मिते त्वयि ब्रुवति व्यामुमुहे वधूजनै: ॥६॥
अयि जीव चिरं किशोर नस्तव दासीरवशीकरोषि किम् । प्रदिशाम्बरमम्बुजेक्षणेत्युदितस्त्वं स्मितमेव दत्तवान् ॥७॥
अधिरुह्य तटं कृताञ्जली: परिशुद्धा: स्वगतीर्निरीक्ष्य ता: । वसनान्यखिलान्यनुग्रहं पुनरेवं गिरमप्यदा मुदा ॥८॥
विदितं ननु वो मनीषितं वदितारस्त्विह योग्यमुत्तरम् । यमुनापुलिने सचन्द्रिका: क्षणदा इत्यबलास्त्वमूचिवान् ॥९॥
उपकर्ण्य भवन्मुखच्युतं मधुनिष्यन्दि वचो मृगीदृश: । प्रणयादयि वीक्ष्य वीक्ष्य ते वदनाब्जं शनकैर्गृहं गता: ॥१०॥
इति नन्वनुगृह्य वल्लवीर्विपिनान्तेषु पुरेव सञ्चरन् । करुणाशिशिरो हरे हर त्वरया मे सकलामयावलिम् ॥११॥