विराट् पुरुष उत्पत्तिः

विराट् पुरुष उत्पत्तिः

Back to Narayaneeyam

Script

Translation

ॐ नमो नारायणाय
अथ श्रीमन्नारायणीयम्
पञ्चमम् दशकम्
विराट् पुरुष उत्पत्तिः
व्यक्ताव्यक्तमिदं न किञ्चिदभवत्प्राक्प्राकृतप्रक्षये मायायाम् गुणसाम्यरुद्धविकृतौ त्वय्यागतायां लयम् । नो मृत्युश्च तदाऽमृतं च समभून्नाह्नो न रात्रे: स्थितिः तत्रैकस्त्वमशिष्यथा: किल परानन्दप्रकाशात्मना ॥१॥
काल: कर्म गुणाश्च जीवनिवहा विश्वं च कार्यं विभो चिल्लीलारतिमेयुषि त्वयि तदा निर्लीनतामाययु: । तेषां नैव वदन्त्यसत्त्वमयि भो: शक्त्यात्मना तिष्ठतां नो चेत् किं गगनप्रसूनसदृशां भूयो भवेत्संभव: ॥२॥
एवं च द्विपरार्धकालविगतावीक्षां सिसृक्षात्मिकां बिभ्राणे त्वयि चुक्षुभे त्रिभुवनीभावाय माया स्वयम् । मायात: खलु कालशक्तिरखिलादृष्टं स्वभावोऽपि च प्रादुर्भूय गुणान्विकास्य विदधुस्तस्यास्सहायक्रियाम् ॥३॥
मायासन्निहितोऽप्रविष्टवपुषा साक्षीति गीतो भवान् भेदैस्तां प्रतिबिंबतो विविशिवान् जीवोऽपि नैवापर: । कालादिप्रतिबोधिताऽथ भवता संचोदिता च स्वयं माया सा खलु बुद्धितत्त्वमसृजद्योऽसौ महानुच्यते ॥४॥
तत्रासौ त्रिगुणात्मकोऽपि च महान् सत्त्वप्रधान: स्वयं जीवेऽस्मिन् खलु निर्विकल्पमहमित्युद्बोधनिष्पादक: । चक्रेऽस्मिन् सविकल्पबोधकमहन्तत्त्वं महान् खल्वसौ सम्पुष्टं त्रिगुणैस्तमोऽतिबहुलं विष्णो भवत्प्रेरणात् ॥५॥
सोऽहं च त्रिगुणक्रमात् त्रिविधतामासाद्य वैकारिको भूयस्तैजसतामसाविति भवन्नाद्येन सत्त्वात्मना देवानिन्द्रियमानिनोऽकृत दिशावातार्कपाश्यश्विनो वह्नीन्द्राच्युतमित्रकान् विधुविधिश्रीरुद्रशारीरकान् ॥६॥
भूमन् मानसबुद्ध्यहंकृतिमिलच्चित्ताख्यवृत्त्यन्वितं तच्चान्त:करणं विभो तव बलात् सत्त्वांश एवासृजत् । जातस्तैजसतो दशेन्द्रियगणस्तत्तामसांशात्पुनः तन्मात्रं नभसो मरुत्पुरपते शब्दोऽजनि त्वद्बलात् ॥७॥
शब्दाद्व्योम तत: ससर्जिथ विभो स्पर्शं ततो मारुतं तस्माद्रूपमतो महोऽथ च रसं तोयं च गन्धं महीम् । एवं माधव पूर्वपूर्वकलनादाद्याद्यधर्मान्वितं भूतग्राममिमं त्वमेव भगवन् प्राकाशयस्तामसात् ॥८॥
एते भूतगणास्तथेन्द्रियगणा देवाश्च जाता: पृथक् नो शेकुर्भुवनाण्डनिर्मितिविधौ देवैरमीभिस्तदा । त्वं नानाविधसूक्तिभिर्नुतगुणस्तत्त्वान्यमून्याविशन् चेष्टाशक्तिमुदीर्य तानि घटयन् हैरण्यमण्डं व्यधा: ॥९॥
अण्डं तत्खलु पूर्वसृष्टसलिलेऽतिष्ठत् सहस्रं समा: निर्भिन्दन्नकृथाश्चतुर्दशजगद्रूपं विराडाह्वयम् । साहस्रै: करपादमूर्धनिवहैर्निश्शेषजीवात्मको निर्भातोऽसि मरुत्पुराधिप स मां त्रायस्व सर्वामयात् ॥१०॥