दावाग्नि मोक्षः ऋतु वर्णनम् च

दावाग्नि मोक्षः ऋतु वर्णनम् च

Back to Narayaneeyam

Script

Translation

अथ श्रीमन्नारायणीयम्
अष्टपञ्चाशम् दशकम्
दावाग्नि मोक्ष: ऋतु वर्णनम् च
त्वयि विहरणलोले बालजालै: प्रलम्ब-
प्रमथनसविलम्बे धेनव: स्वैरचारा: । तृणकुतुकनिविष्टा दूरदूरं चरन्त्य: किमपि विपिनमैषीकाख्यमीषांबभूवु: ॥१॥
अनधिगतनिदाघक्रौर्यवृन्दावनान्तात् बहिरिदमुपयाता: काननं धेनवस्ता: । तव विरहविषण्णा ऊष्मलग्रीष्मताप- प्रसरविसरदम्भस्याकुला: स्तम्भमापु: ॥२॥
तदनु सह सहायैर्दूरमन्विष्य शौरे गलितसरणिमुञ्जारण्यसञ्जातखेदम् । पशुकुलमभिवीक्ष्य क्षिप्रमानेतुमारात् त्वयि गतवति ही ही सर्वतोऽग्निर्जजृम्भे ॥३॥
सकलहरिति दीप्ते घोरभाङ्कारभीमे शिखिनि विहतमार्गा अर्धदग्धा इवार्ता: । अहह भुवनबन्धो पाहि पाहीति सर्वे शरणमुपगतास्त्वां तापहर्तारमेकम् ॥४॥
अलमलमतिभीत्या सर्वतो मीलयध्वं दृशमिति तव वाचा मीलिताक्षेषु तेषु । क्व नु दवदहनोऽसौ कुत्र मुञ्जाटवी सा सपदि ववृतिरे ते हन्त भाण्डीरदेशे ॥५॥
जय जय तव माया केयमीशेति तेषां नुतिभिरुदितहासो बद्धनानाविलास: । पुनरपि विपिनान्ते प्राचर: पाटलादि- प्रसवनिकरमात्रग्राह्यघर्मानुभावे ॥६॥
त्वयि विमुखमिवोच्चैस्तापभारं वहन्तं तव भजनवदन्त: पङ्कमुच्छोषयन्तम् । तव भुजवदुदञ्चद्भूरितेज:प्रवाहं तपसमयमनैषीर्यामुनेषु स्थलेषु ॥७॥
तदनु जलदजालैस्त्वद्वपुस्तुल्यभाभि: विकसदमलविद्युत्पीतवासोविलासै: । सकलभुवनभाजां हर्षदां वर्षवेलां क्षितिधरकुहरेषु स्वैरवासी व्यनैषी: ॥८॥
कुहरतलनिविष्टं त्वां गरिष्ठं गिरीन्द्र: शिखिकुलनवकेकाकाकुभि: स्तोत्रकारी । स्फुटकुटजकदम्बस्तोमपुष्पाञ्जलिं च प्रविदधदनुभेजे देव गोवर्धनोऽसौ ॥९॥
अथ शरदमुपेतां तां भवद्भक्तचेतो- विमलसलिलपूरां मानयन् काननेषु । तृणममलवनान्ते चारु सञ्चारयन् गा: पवनपुरपते त्वं देहि मे देहसौख्यम् ॥१०॥