कालिय अनुग्रहः
कालिय अनुग्रहः
Script
Translation
Previous
कालिय मर्दनम्
Next
प्रलंबासुर वधः
अथ श्रीमन्नारायणीयम्
षट्पञ्चाशम् दशकम्
कालिय अनुग्रह:
रुचिरकम्पितकुण्डलमण्डल: सुचिरमीश ननर्तिथ पन्नगे ।
अमरताडितदुन्दुभिसुन्दरं वियति गायति दैवतयौवते ॥१॥
नमति यद्यदमुष्य शिरो हरे परिविहाय तदुन्नतमुन्नतम् ।
परिमथन् पदपङ्करुहा चिरं व्यहरथा: करतालमनोहरम् ॥२॥
त्वदवभग्नविभुग्नफणागणे गलितशोणितशोणितपाथसि ।
फणिपताववसीदति सन्नतास्तदबलास्तव माधव पादयो: ॥३॥
अयि पुरैव चिराय परिश्रुतत्वदनुभावविलीनहृदो हि ता: ।
मुनिभिरप्यनवाप्यपथै: स्तवैर्नुनुवुरीश भवन्तमयन्त्रितम् ॥४॥
फणिवधूगणभक्तिविलोकनप्रविकसत्करुणाकुलचेतसा ।
फणिपतिर्भवताऽच्युत जीवितस्त्वयि समर्पितमूर्तिरवानमत् ॥५॥
रमणकं व्रज वारिधिमध्यगं फणिरिपुर्न करोति विरोधिताम् ।
इति भवद्वचनान्यतिमानयन् फणिपतिर्निरगादुरगै: समम् ॥६॥
फणिवधूजनदत्तमणिव्रजज्वलितहारदुकूलविभूषित: ।
तटगतै: प्रमदाश्रुविमिश्रितै: समगथा: स्वजनैर्दिवसावधौ ॥७॥
निशि पुनस्तमसा व्रजमन्दिरं व्रजितुमक्षम एव जनोत्करे ।
स्वपति तत्र भवच्चरणाश्रये दवकृशानुररुन्ध समन्तत: ॥८॥
प्रबुधितानथ पालय पालयेत्युदयदार्तरवान् पशुपालकान् ।
अवितुमाशु पपाथ महानलं किमिह चित्रमयं खलु ते मुखम् ॥९॥
शिखिनि वर्णत एव हि पीतता परिलसत्यधुना क्रिययाऽप्यसौ ।
इति नुत: पशुपैर्मुदितैर्विभो हर हरे दुरितै:सह मे गदान् ॥१०॥
Previous
कालिय मर्दनम्
Next
प्रलंबासुर वधः