कालिय मर्दनम्

कालिय मर्दनम्

Back to Narayaneeyam

Script

Translation

अथ श्रीमन्नारायणीयम्
पञ्चपञ्चाशम् दशकम्
कालिय मर्दनम्
अथ वारिणि घोरतरं फणिनं प्रतिवारयितुं कृतधीर्भगवन् ।
द्रुतमारिथ तीरगनीपतरुं विषमारुतशोषितपर्णचयम् ॥१॥
अधिरुह्य पदाम्बुरुहेण च तं नवपल्लवतुल्यमनोज्ञरुचा । ह्रदवारिणि दूरतरं न्यपत: परिघूर्णितघोरतरङ्गगणे ॥२॥
भुवनत्रयभारभृतो भवतो गुरुभारविकम्पिविजृम्भिजला । परिमज्जयति स्म धनुश्शतकं तटिनी झटिति स्फुटघोषवती ॥३॥
अथ दिक्षु विदिक्षु परिक्षुभितभ्रमितोदरवारिनिनादभरै: । उदकादुदगादुरगाधिपतिस्त्वदुपान्तमशान्तरुषाऽन्धमना: ॥४॥
फणशृङ्गसहस्रविनिस्सृमरज्वलदग्निकणोग्रविषाम्बुधरम् । पुरत: फणिनं समलोकयथाबहुशृङ्गिणमञ्जनशैलमिव ॥५॥
ज्वलदक्षि परिक्षरदुग्रविषश्वसनोष्मभर: स महाभुजग: । परिदश्य भवन्तमनन्तबलं समवेष्टयदस्फुटचेष्टमहो ॥६॥
अविलोक्य भवन्तमथाकुलिते तटगामिनि बालकधेनुगणे । व्रजगेहतलेऽप्यनिमित्तशतं समुदीक्ष्य गता यमुनां पशुपा: । ।७॥
अखिलेषु विभो भवदीय दशामवलोक्य जिहासुषु जीवभरम् । फणिबन्धनमाशु विमुच्य जवादुदगम्यत हासजुषा भवता ॥८॥
अधिरुह्य तत: फणिराजफणान्ननृते भवता मृदुपादरुचा । कलशिञ्जितनूपुरमञ्जुमिलत्करकङ्कणसङ्कुलसङ्क्वणितम् ॥९॥
जहृषु: पशुपास्तुतुषुर्मुनयो ववृषु: कुसुमानि सुरेन्द्रगणा: । त्वयि नृत्यति मारुतगेहपते परिपाहि स मां त्वमदान्तगदात् ॥१०॥