कालिय विष बाधितानां गो गोपानां उज्जीवनम्

कालिय विष बाधितानां गो गोपानां उज्जीवनम्

Back to Narayaneeyam

Script

Translation

अथ श्रीमन्नारायणीयम्
चतुष्पञ्चाशम् दशकम्
कालिय विष बाधितानां गो गोपानां उज्जीवनम्
त्वत्सेवोत्कस्सौभरिर्नाम पूर्वं
कालिन्द्यन्तर्द्वादशाब्दम् तपस्यन् । मीनव्राते स्नेहवान् भोगलोले तार्क्ष्यं साक्षादैक्षताग्रे कदाचित् ॥१॥
त्वद्वाहं तं सक्षुधं तृक्षसूनुं मीनं कञ्चिज्जक्षतं लक्षयन् स: । तप्तश्चित्ते शप्तवानत्र चेत्त्वं जन्तून् भोक्ता जीवितं चापि मोक्ता ॥२॥
तस्मिन् काले कालिय: क्ष्वेलदर्पात् सर्पाराते: कल्पितं भागमश्नन् । तेन क्रोधात्त्वत्पदाम्भोजभाजा पक्षक्षिप्तस्तद्दुरापं पयोऽगात् ॥३॥
घोरे तस्मिन् सूरजानीरवासे तीरे वृक्षा विक्षता: क्ष्वेलवेगात् । पक्षिव्राता: पेतुरभ्रे पतन्त: कारुण्यार्द्रं त्वन्मनस्तेन जातम् ॥४॥
काले तस्मिन्नेकदा सीरपाणिं मुक्त्वा याते यामुनं काननान्तम् । त्वय्युद्दामग्रीष्मभीष्मोष्मतप्ता गोगोपाला व्यापिबन् क्ष्वेलतोयम् ॥५॥
नश्यज्जीवान् विच्युतान् क्ष्मातले तान् विश्वान् पश्यन्नच्युत त्वं दयार्द्र: । प्राप्योपान्तं जीवयामासिथ द्राक् पीयूषाम्भोवर्षिभि: श्रीकाटक्षै: ॥६॥
किं किं जातो हर्षवर्षातिरेक: सर्वाङ्गेष्वित्युत्थिता गोपसङ्घा: । दृष्ट्वाऽग्रे त्वां त्वत्कृतं तद्विदन्त: त्वामालिङ्गन् दृष्टनानाप्रभावा: ॥७॥
गावश्चैवं लब्धजीवा: क्षणेन स्फीतानन्दास्त्वां च दृष्ट्वा पुरस्तात् । द्रागावव्रु: सर्वतो हर्षबाष्पं व्यामुञ्चन्त्यो मन्दमुद्यन्निनादा: ॥८॥
रोमाञ्चोऽयं सर्वतो न: शरीरे भूयस्यन्त: काचिदानन्दमूर्छा । आश्चर्योऽयं क्ष्वेलवेगो मुकुन्दे- त्युक्तो गोपैर्नन्दितो वन्दितोऽभू: ॥९॥
एवं भक्तान् मुक्तजीवानपि त्वं मुग्धापाङ्गैरस्तरोगांस्तनोषि । तादृग्भूतस्फीतकारुण्यभूमा रोगात् पाया वायुगेहाधिवास ॥१०॥