अघासुर निग्रहः वनभोजनम् च

अघासुर निग्रहः वनभोजनम् च

Back to Narayaneeyam

Script

Translation

अथ श्रीमन्नारायणीयम्
एकपञ्चाशम् दशकम्
अघासुर निग्रह: वनभोजनम् च
कदाचन व्रजशिशुभि: समं भवान्
वनाशने विहितमति: प्रगेतराम् । समावृतो बहुतरवत्समण्डलै: सतेमनैर्निरगमदीश जेमनै: ॥१॥
विनिर्यतस्तव चरणाम्बुजद्वयात् उदञ्चितं त्रिभुवनपावनं रज: । महर्षय: पुलकधरै: कलेवरै: उदूहिरे धृतभवदीक्षणोत्सवा: ॥२॥
प्रचारयत्यविरलशाद्वले तले पशून् विभो भवति समं कुमारकै: । अघासुरो न्यरुणदघाय वर्तनी भयानक: सपदि शयानकाकृति: ॥३॥
महाचलप्रतिमतनोर्गुहानिभ- प्रसारितप्रथितमुखस्य कानने । मुखोदरं विहरणकौतुकाद्गता: कुमारका: किमपि विदूरगे त्वयि ॥४॥
प्रमादत: प्रविशति पन्नगोदरं क्वथत्तनौ पशुपकुले सवात्सके । विदन्निदं त्वमपि विवेशिथ प्रभो सुहृज्जनं विशरणमाशु रक्षितुम् ॥५॥
गलोदरे विपुलितवर्ष्मणा त्वया महोरगे लुठति निरुद्धमारुते । द्रुतं भवान् विदलितकण्ठमण्डलो विमोचयन् पशुपपशून् विनिर्ययौ ॥६॥
क्षणं दिवि त्वदुपगमार्थमास्थितं महासुरप्रभवमहो महो महत् । विनिर्गते त्वयि तु निलीनमञ्जसा नभ:स्थले ननृतुरथो जगु: सुरा: ॥७॥
सविस्मयै: कमलभवादिभि: सुरै: अनुद्रुतस्तदनु गत: कुमारकै: । दिने पुनस्तरुणदशामुपेयुषि स्वकैर्भवानतनुत भोजनोत्सवम् ॥८॥
विषाणिकामपि मुरलीं नितम्बके निवेशयन् कबलधर: कराम्बुजे । प्रहासयन् कलवचनै: कुमारकान् बुभोजिथ त्रिदशगणैर्मुदा नुत: ॥९॥
सुखाशनं त्विह तव गोपमण्डले मखाशनात् प्रियमिव देवमण्डले । इति स्तुतस्त्रिदशवरैर्जगत्पते मरुत्पुरीनिलय गदात् प्रपाहि माम् ॥१०॥