वत्सासुर बकासुरयोः वधः

वत्सासुर बकासुरयोः वधः

Back to Narayaneeyam

Script

Translation

अथ श्रीमन्नारायणीयम्
पञ्चाशम् दशकम्
वत्सासुर बकासुरयो: वध:
तरलमधुकृत् वृन्दे वृन्दावनेऽथ मनोहरे
पशुपशिशुभि: साकं वत्सानुपालनलोलुप: । हलधरसखो देव श्रीमन् विचेरिथ धारयन् गवलमुरलीवेत्रं नेत्राभिरामतनुद्युति: ॥१॥
विहितजगतीरक्षं लक्ष्मीकराम्बुजलालितं ददति चरणद्वन्द्वं वृन्दावने त्वयि पावने । किमिव न बभौ सम्पत्सम्पूरितं तरुवल्लरी- सलिलधरणीगोत्रक्षेत्रादिकं कमलापते ॥२॥
विलसदुलपे कान्तारान्ते समीरणशीतले विपुलयमुनातीरे गोवर्धनाचलमूर्धसु । ललितमुरलीनाद: सञ्चारयन् खलु वात्सकं क्वचन दिवसे दैत्यं वत्साकृतिं त्वमुदैक्षथा: ॥३॥
रभसविलसत्पुच्छं विच्छायतोऽस्य विलोकयन् किमपि वलितस्कन्धं रन्ध्रप्रतीक्षमुदीक्षितम् । तमथ चरणे बिभ्रद्विभ्रामयन् मुहुरुच्चकै: कुहचन महावृक्षे चिक्षेपिथ क्षतजीवितम् ॥४॥
निपतति महादैत्ये जात्या दुरात्मनि तत्क्षणं निपतनजवक्षुण्णक्षोणीरुहक्षतकानने । दिवि परिमिलत् वृन्दा वृन्दारका: कुसुमोत्करै: शिरसि भवतो हर्षाद्वर्षन्ति नाम तदा हरे ॥५॥
सुरभिलतमा मूर्धन्यूर्ध्वं कुत: कुसुमावली निपतति तवेत्युक्तो बालै: सहेलमुदैरय: । झटिति दनुजक्षेपेणोर्ध्वं गतस्तरुमण्डलात् कुसुमनिकर: सोऽयं नूनं समेति शनैरिति ॥६॥
क्वचन दिवसे भूयो भूयस्तरे परुषातपे तपनतनयापाथ: पातुं गता भवदादय: । चलितगरुतं प्रेक्षामासुर्बकं खलु विस्म्रृतं क्षितिधरगरुच्छेदे कैलासशैलमिवापरम् ॥७॥
पिबति सलिलं गोपव्राते भवन्तमभिद्रुत: स किल निगिलन्नग्निप्रख्यं पुनर्द्रुतमुद्वमन् । दलयितुमगात्त्रोट्या: कोट्या तदाऽऽशु भवान् विभो खलजनभिदाचुञ्चुश्चञ्चू प्रगृह्य ददार तम् ॥८॥
सपदि सहजां सन्द्रष्टुं वा मृतां खलु पूतनाम् अनुजमघमप्यग्रे गत्वा प्रतीक्षितुमेव वा । शमननिलयं याते तस्मिन् बके सुमनोगणे किरति सुमनोवृन्दं वृन्दावनात् गृहमैयथा: ॥९॥
ललितमुरलीनादं दूरान्निशम्य वधूजनै: त्वरितमुपगम्यारादारूढमोदमुदीक्षित: । जनितजननीनन्दानन्द: समीरणमन्दिर- प्रथितवसते शौरे दूरीकुरुष्व ममामयान् ॥१०॥