ब्रह्म गर्व शमनम्

ब्रह्म गर्व शमनम्

Back to Narayaneeyam

Script

Translation

अथ श्रीमन्नारायणीयम्
द्विपञ्चाशम् दशकम्
ब्रह्म गर्व शमनम्
अन्यावतारनिकरेष्वनिरीक्षितं ते
भूमातिरेकमभिवीक्ष्य तदाघमोक्षे । ब्रह्मा परीक्षितुमना: स परोक्षभावं निन्येऽथ वत्सकगणान् प्रवितत्य मायाम् ॥१॥
वत्सानवीक्ष्य विवशे पशुपोत्करे तान् आनेतुकाम इव धातृमतानुवर्ती । त्वं सामिभुक्तकबलो गतवांस्तदानीं भुक्तांस्तिरोऽधित सरोजभव: कुमारान् ॥२॥
वत्सायितस्तदनु गोपगणायितस्त्वं शिक्यादिभाण्डमुरलीगवलादिरूप: । प्राग्वद्विहृत्य विपिनेषु चिराय सायं त्वं माययाऽथ बहुधा व्रजमाययाथ ॥३॥
त्वामेव शिक्यगवलादिमयं दधानो भूयस्त्वमेव पशुवत्सकबालरूप: । गोरूपिणीभिरपि गोपवधूमयीभि: आसादितोऽसि जननीभिरतिप्रहर्षात् ॥४॥
जीवं हि कञ्चिदभिमानवशात्स्वकीयं मत्वा तनूज इति रागभरं वहन्त्य: । आत्मानमेव तु भवन्तमवाप्य सूनुं प्रीतिं ययुर्न कियतीं वनिताश्च गाव: ॥५॥
एवं प्रतिक्षणविजृम्भितहर्षभार- निश्शेषगोपगणलालितभूरिमूर्तिम् । त्वामग्रजोऽपि बुबुधे किल वत्सरान्ते ब्रह्मात्मनोरपि महान् युवयोर्विशेष: ॥६॥
वर्षावधौ नवपुरातनवत्सपालान् दृष्ट्वा विवेकमसृणे द्रुहिणे विमूढे । प्रादीदृश: प्रतिनवान् मकुटाङ्गदादि भूषांश्चतुर्भुजयुज: सजलाम्बुदाभान् ॥७॥
प्रत्येकमेव कमलापरिलालिताङ्गान् भोगीन्द्रभोगशयनान् नयनाभिरामान् । लीलानिमीलितदृश: सनकादियोगि- व्यासेवितान् कमलभूर्भवतो ददर्श ॥८॥
नारायणाकृतिमसंख्यतमां निरीक्ष्य सर्वत्र सेवकमपि स्वमवेक्ष्य धाता । मायानिमग्नहृदयो विमुमोह यावत् एको बभूविथ तदा कबलार्धपाणि: ॥९॥
नश्यन्मदे तदनु विश्वपतिं मुहुस्त्वां नत्वा च नूतवति धातरि धाम याते । पोतै: समं प्रमुदितै: प्रविशन् निकेतं वातालयाधिप विभो परिपाहि रोगात् ॥१०॥