अष्टाङ्ग योगः तत्सिद्धि प्रकारः च

अष्टाङ्ग योगः तत्सिद्धि प्रकारः च

Back to Narayaneeyam

Script

Translation

ॐ नमो नारायणाय
अथ श्रीमन्नारायणीयम्
चतुर्थम् दशकम्
अष्टाङ्ग योगः तत्सिद्धि प्रकारः च
कल्यतां मम कुरुष्व तावतीं कल्यते भवदुपासनं यया । स्पष्टमष्टविधयोगचर्यया पुष्टयाशु तव तुष्टिमाप्नुयाम् ॥१॥
ब्रह्मचर्यदृढतादिभिर्यमैराप्लवादिनियमैश्च पाविता: । कुर्महे दृढममी सुखासनं पङ्कजाद्यमपि वा भवत्परा: ॥२॥
तारमन्तरनुचिन्त्य सन्ततं प्राणवायुमभियम्य निर्मला: । इन्द्रियाणि विषयादथापहृत्यास्महे भवदुपासनोन्मुखा: ॥३॥
अस्फुटे वपुषि ते प्रयत्नतो धारयेम धिषणां मुहुर्मुहु: । तेन भक्तिरसमन्तरार्द्रतामुद्वहेम भवदङ्घ्रिचिन्तका: ॥४॥
विस्फुटावयवभेदसुन्दरं त्वद्वपु: सुचिरशीलनावशात् । अश्रमं मनसि चिन्तयामहे ध्यानयोगनिरतास्त्वदाश्रयाः ॥५॥
ध्यायतां सकलमूर्तिमीदृशीमुन्मिषन्मधुरताहृतात्मनाम् । सान्द्रमोदरसरूपमान्तरं ब्रह्म रूपमयि तेऽवभासते ॥६॥
तत्समास्वदनरूपिणीं स्थितिं त्वत्समाधिमयि विश्वनायक । आश्रिता: पुनरत: परिच्युतावारभेमहि च धारणादिकम् ॥७॥
इत्थमभ्यसननिर्भरोल्लसत्त्वत्परात्मसुखकल्पितोत्सवा: । मुक्तभक्तकुलमौलितां गता: सञ्चरेम शुकनारदादिवत् ॥८॥
त्वत्समाधिविजये तु य: पुनर्मङ्क्षु मोक्षरसिक: क्रमेण वा । योगवश्यमनिलं षडाश्रयैरुन्नयत्यज सुषुम्नया शनै: ॥९॥
लिङ्गदेहमपि सन्त्यजन्नथो लीयते त्वयि परे निराग्रह: । ऊर्ध्वलोककुतुकी तु मूर्धत: सार्धमेव करणैर्निरीयते ॥१०॥
अग्निवासरवलर्क्षपक्षगैरुत्तरायणजुषा च दैवतै: । प्रापितो रविपदं भवत्परो मोदवान् ध्रुवपदान्तमीयते ॥११॥
आस्थितोऽथ महरालये यदा शेषवक्त्रदहनोष्मणार्द्यते । ईयते भवदुपाश्रयस्तदा वेधस: पदमत: पुरैव वा ॥१२॥
तत्र वा तव पदेऽथवा वसन् प्राकृतप्रलय एति मुक्तताम् । स्वेच्छया खलु पुरा विमुच्यते संविभिद्य जगदण्डमोजसा ॥१३॥
तस्य च क्षितिपयोमहोऽनिलद्योमहत्प्रकृतिसप्तकावृती: । तत्तदात्मकतया विशन् सुखी याति ते पदमनावृतं विभो ॥१४॥
अर्चिरादिगतिमीदृशीं व्रजन् विच्युतिं न भजते जगत्पते । सच्चिदात्मक भवत् गुणोदयानुच्चरन्तमनिलेश पाहि माम् ॥१५॥