उलूखल बन्धनम्

उलूखल बन्धनम्

Back to Narayaneeyam

Script

Translation

ॐ नमो नारायणाय
अथ श्रीमन्नारायणीयम्
सप्तचत्वारिंशम् दशकम्
उलूखल बन्धनम्
एकदा दधिविमाथकारिणीं मातरं समुपसेदिवान् भवान् । स्तन्यलोलुपतया निवारयन्नङ्कमेत्य पपिवान् पयोधरौ ॥१॥
अर्धपीतकुचकुड्मले त्वयि स्निग्धहासमधुराननाम्बुजे । दुग्धमीश दहने परिस्रुतं धर्तुमाशु जननी जगाम ते ॥२॥
सामिपीतरसभङ्गसङ्गतक्रोधभारपरिभूतचेतसा । मन्थदण्डमुपगृह्य पाटितं हन्त देव दधिभाजनं त्वया ॥३॥
उच्चलद्ध्वनितमुच्चकैस्तदा सन्निशम्य जननी समाद्रुता । त्वद्यशोविसरवद्ददर्श सा सद्य एव दधि विस्तृतं क्षितौ ॥४॥
वेदमार्गपरिमार्गितं रुषा त्वामवीक्ष्य परिमार्गयन्त्यसौ । सन्ददर्श सुकृतिन्युलूखले दीयमाननवनीतमोतवे ॥५॥
त्वां प्रगृह्य बत भीतिभावनाभासुराननसरोजमाशु सा । रोषरूषितमुखी सखीपुरो बन्धनाय रशनामुपाददे ॥६॥
बन्धुमिच्छति यमेव सज्जनस्तं भवन्तमयि बन्धुमिच्छती । सा नियुज्य रशनागुणान् बहून् द्व्यङ्गुलोनमखिलं किलैक्षत ॥७॥
विस्मितोत्स्मितसखीजनेक्षितां स्विन्नसन्नवपुषं निरीक्ष्य ताम् । नित्यमुक्तवपुरप्यहो हरे बन्धमेव कृपयाऽन्वमन्यथा: ॥८॥
स्थीयतां चिरमुलूखले खलेत्यागता भवनमेव सा यदा । प्रागुलूखलबिलान्तरे तदा सर्पिरर्पितमदन्नवास्थिथा: ॥९॥
यद्यपाशसुगमो विभो भवान् संयत: किमु सपाशयाऽनया । एवमादि दिविजैरभिष्टुतो वातनाथ परिपाहि मां गदात् ॥१०॥