श्री कृष्णस्य वदने यशोदया लोकानां दर्शनम्
श्री कृष्णस्य वदने यशोदया लोकानां दर्शनम्
Script
Translation
Previous
बाल लीला
Next
उलूखल बन्धनम्
ॐ नमो नारायणाय
अथ श्रीमन्नारायणीयम्
षट्चत्वारिंशम् दशकम्
श्री कृष्णस्य वदने यशोदया लोकानां दर्शनम्
अयि देव पुरा किल त्वयि स्वयमुत्तानशये स्तनन्धये ।
परिजृम्भणतो व्यपावृते वदने विश्वमचष्ट वल्लवी ॥१॥
पुनरप्यथ बालकै: समं त्वयि लीलानिरते जगत्पते ।
फलसञ्चयवञ्चनक्रुधा तव मृद्भोजनमूचुरर्भका: ॥२॥
अयि ते प्रलयावधौ विभो क्षितितोयादिसमस्तभक्षिण: ।
मृदुपाशनतो रुजा भवेदिति भीता जननी चुकोप सा ॥३॥
अयि दुर्विनयात्मक त्वया किमु मृत्सा बत वत्स भक्षिता ।
इति मातृगिरं चिरं विभो वितथां त्वं प्रतिजज्ञिषे हसन् ॥४॥
अयि ते सकलैर्विनिश्चिते विमतिश्चेद्वदनं विदार्यताम् ।
इति मातृविभर्त्सितो मुखं विकसत्पद्मनिभं व्यदारय: ॥५॥
अपि मृल्लवदर्शनोत्सुकां जननीं तां बहु तर्पयन्निव ।
पृथिवीं निखिलां न केवलं भुवनान्यप्यखिलान्यदीदृश: ॥६॥
कुहचिद्वनमम्बुधि: क्वचित् क्वचिदभ्रं कुहचिद्रसातलम् ।
मनुजा दनुजा: क्वचित् सुरा ददृशे किं न तदा त्वदानने ॥७॥
कलशाम्बुधिशायिनं पुन: परवैकुण्ठपदाधिवासिनम् ।
स्वपुरश्च निजार्भकात्मकं कतिधा त्वां न ददर्श सा मुखे ॥८॥
विकसद्भुवने मुखोदरे ननु भूयोऽपि तथाविधानन: ।
अनया स्फुटमीक्षितो भवाननवस्थां जगतां बतातनोत् ॥९॥
धृततत्त्वधियं तदा क्षणं जननीं तां प्रणयेन मोहयन् ।
स्तनमम्ब दिशेत्युपासजन् भगवन्नद्भुतबाल पाहि माम् ॥१०॥
Previous
बाल लीला
Next
उलूखल बन्धनम्