नलकूबर मणिग्रीवयोः शाप मोक्षः

नलकूबर मणिग्रीवयोः शाप मोक्षः

Back to Narayaneeyam

Script

Translation

ॐ नमो नारायणाय
अथ श्रीमन्नारायणीयम्
अष्टचत्वारिंशम् दशकम्
नलकूबर मणिग्रीवयो: शाप मोक्ष:
मुदा सुरौघैस्त्वमुदारसम्मदैरुदीर्य दामोदर इत्यभिष्टुत: । मृदूदर: स्वैरमुलूखले लगन्नदूरतो द्वौ ककुभावुदैक्षथा: ॥१॥
कुबेरसूनुर्नलकूबराभिध: परो मणिग्रीव इति प्रथां गत: । महेशसेवाधिगतश्रियोन्मदौ चिरं किल त्वद्विमुखावखेलताम् ॥२॥
सुरापगायां किल तौ मदोत्कटौ सुरापगायद्बहुयौवतावृतौ । विवाससौ केलिपरौ स नारदो भवत्पदैकप्रवणो निरैक्षत ॥३॥
भिया प्रियालोकमुपात्तवाससं पुरो निरीक्ष्यापि मदान्धचेतसौ । इमौ भवद्भक्त्युपशान्तिसिद्धये मुनिर्जगौ शान्तिमृते कुत: सुखम् ॥४॥
युवामवाप्तौ ककुभात्मतां चिरं हरिं निरीक्ष्याथ पदं स्वमाप्नुताम् । इतीरितौ तौ भवदीक्षणस्पृहां गतौ व्रजान्ते ककुभौ बभूवतु: ॥५॥
अतन्द्रमिन्द्रद्रुयुगं तथाविधं समेयुषा मन्थरगामिना त्वया । तिरायितोलूखलरोधनिर्धुतौ चिराय जीर्णौ परिपातितौ तरू ॥६॥
अभाजि शाखिद्वितयं यदा त्वया तदैव तद्गर्भतलान्निरेयुषा । महात्विषा यक्षयुगेन तत्क्षणादभाजि गोविन्द भवानपि स्तवै: ॥७॥
इहान्यभक्तोऽपि समेष्यति क्रमात् भवन्तमेतौ खलु रुद्रसेवकौ । मुनिप्रसादाद्भवदङ्घ्रिमागतौ गतौ वृणानौ खलु भक्तिमुत्तमाम् ॥८॥
ततस्तरूद्दारणदारुणारवप्रकम्पिसम्पातिनि गोपमण्डले । विलज्जितत्वज्जननीमुखेक्षिणा व्यमोक्षि नन्देन भवान् विमोक्षद: ॥९॥
महीरुहोर्मध्यगतो बतार्भको हरे: प्रभावादपरिक्षतोऽधुना । इति ब्रुवाणैर्गमितो गृहं भवान् मरुत्पुराधीश्वर पाहि मां गदात् ॥१०॥