बाल लीला

बाल लीला

Back to Narayaneeyam

Script

Translation

ॐ नमो नारायणाय
अथ श्रीमन्नारायणीयम्
पञ्चचत्वारिंशम् दशकम्
बाल लीला
अयि सबल मुरारे पाणिजानुप्रचारै: किमपि भवनभागान् भूषयन्तौ भवन्तौ । चलितचरणकञ्जौ मञ्जुमञ्जीरशिञ्जा- श्रवणकुतुकभाजौ चेरतुश्चारुवेगात् ॥१॥
मृदु मृदु विहसन्तावुन्मिषद्दन्तवन्तौ वदनपतितकेशौ दृश्यपादाब्जदेशौ । भुजगलितकरान्तव्यालगत्कङ्कणाङ्कौ मतिमहरतमुच्चै: पश्यतां विश्वनॄणाम् ॥२॥
अनुसरति जनौघे कौतुकव्याकुलाक्षे किमपि कृतनिनादं व्याहसन्तौ द्रवन्तौ । वलितवदनपद्मं पृष्ठतो दत्तदृष्टी किमिव न विदधाथे कौतुकं वासुदेव ॥३॥
द्रुतगतिषु पतन्तावुत्थितौ लिप्तपङ्कौ दिवि मुनिभिरपङ्कै: सस्मितं वन्द्यमानौ । द्रुतमथ जननीभ्यां सानुकम्पं गृहीतौ मुहुरपि परिरब्धौ द्राग्युवां चुम्बितौ च ॥४॥
स्नुतकुचभरमङ्के धारयन्ती भवन्तं तरलमति यशोदा स्तन्यदा धन्यधन्या । कपटपशुप मध्ये मुग्धहासाङ्कुरं ते दशनमुकुलहृद्यं वीक्ष्य वक्त्रं जहर्ष ॥५॥
तदनुचरणचारी दारकैस्साकमारात् निलयततिषु खेलन् बालचापल्यशाली । भवनशुकविडालान् वत्सकांश्चानुधावन् कथमपि कृतहासैर्गोपकैर्वारितोऽभू: ॥६॥
हलधरसहितस्त्वं यत्र यत्रोपयातो विवशपतितनेत्रास्तत्र तत्रैव गोप्य: । विगलितगृहकृत्या विस्मृतापत्यभृत्या मुरहर मुहुरत्यन्ताकुला नित्यमासन् ॥७॥
प्रतिनवनवनीतं गोपिकादत्तमिच्छन् कलपदमुपगायन् कोमलं क्वापि नृत्यन् । सदययुवतिलोकैरर्पितं सर्पिरश्नन् क्वचन नवविपक्वं दुग्धमप्यापिबस्त्वम् ॥८॥
मम खलु बलिगेहे याचनं जातमास्ताम् इह पुनरबलानामग्रतो नैव कुर्वे । इति विहितमति: किं देव सन्त्यज्य याच्ञां दधिघृतमहरस्त्वं चारुणा चोरणेन ॥९॥
तव दधिघृतमोषे घोषयोषाजनानाम् अभजत हृदि रोषो नावकाशं न शोक: । हृदयमपि मुषित्वा हर्षसिन्धौ न्यधास्त्वं स मम शमय रोगान् वातगेहाधिनाथ ॥१०॥
शाखाग्रेऽथ विधुं विलोक्य फलमित्यम्बां च तातं मुहु: संप्रार्थ्याथ तदा तदीयवचसा प्रोत्क्षिप्तबाहौ त्वयि । चित्रं देव शशी स ते करमगात् किं ब्रूमहे संपत- ज्ज्योतिर्मण्डलपूरिताखिलवपु: प्रागा विराड्रूपताम् ॥११॥
किं किं बतेदमिति संभ्रम भाजमेनं ब्रह्मार्णवे क्षणममुं परिमज्ज्य तातम् । मायां पुनस्तनयमोहमयीं वितन्वन् आनन्दचिन्मय जगन्मय पाहि रोगात् ॥१२॥