नामकरणम् जातक फल कथनं च

नामकरणम् जातक फल कथनं च

Back to Narayaneeyam

Script

Translation

ॐ नमो नारायणाय
अथ श्रीमन्नारायणीयम्
चतुश्चत्वारिंशम् दशकम्
नामकरणम् जातक फल कथनं च
गूढं वसुदेवगिरा कर्तुं ते निष्क्रियस्य संस्कारान् । हृद्गतहोरातत्त्वो गर्गमुनिस्त्वत् गृहं विभो गतवान् ॥१॥
नन्दोऽथ नन्दितात्मा वृन्दिष्टं मानयन्नमुं यमिनाम् । मन्दस्मितार्द्रमूचे त्वत्संस्कारान् विधातुमुत्सुकधी: ॥२॥
यदुवंशाचार्यत्वात् सुनिभृतमिदमार्य कार्यमिति कथयन् । गर्गो निर्गतपुलकश्चक्रे तव साग्रजस्य नामानि ॥३॥
कथमस्य नाम कुर्वे सहस्रनाम्नो ह्यनन्तनाम्नो वा । इति नूनं गर्गमुनिश्चक्रे तव नाम नाम रहसि विभो ॥४॥
कृषिधातुणकाराभ्यां सत्तानन्दात्मतां किलाभिलपत् । जगदघकर्षित्वं वा कथयदृषि: कृष्णनाम ते व्यतनोत् ॥५॥
अन्यांश्च नामभेदान् व्याकुर्वन्नग्रजे च रामादीन् । अतिमानुषानुभावं न्यगदत्त्वामप्रकाशयन् पित्रे ॥६॥
स्निह्यति यस्तव पुत्रे मुह्यति स न मायिकै: पुन: शोकै: । द्रुह्यति य: स तु नश्येदित्यवदत्ते महत्त्वमृषिवर्य: ॥७॥
जेष्यति बहुतरदैत्यान् नेष्यति निजबन्धुलोकममलपदम् । श्रोष्यसि सुविमलकीर्तीरस्येति भवद्विभूतिमृषिरूचे ॥८॥
अमुनैव सर्वदुर्गं तरितास्थ कृतास्थमत्र तिष्ठध्वम् । हरिरेवेत्यनभिलपन्नित्यादि त्वामवर्णयत् स मुनि: ॥९॥
गर्गेऽथ निर्गतेऽस्मिन् नन्दितनन्दादिनन्द्यमानस्त्वम् । मद्गदमुद्गतकरुणो निर्गमय श्रीमरुत्पुराधीश ॥१०॥