तृणावर्त वधः

तृणावर्त वधः

Back to Narayaneeyam

Script

Translation

ॐ नमो नारायणाय
अथ श्रीमन्नारायणीयम्
त्रिचत्वारिंशम् दशकम्
तृणावर्त वध:
त्वामेकदा गुरुमरुत्पुरनाथ वोढुं गाढाधिरूढगरिमाणमपारयन्ती । माता निधाय शयने किमिदं बतेति ध्यायन्त्यचेष्टत गृहेषु निविष्टशङ्का ॥१॥
तावद्विदूरमुपकर्णितघोरघोष- व्याजृम्भिपांसुपटलीपरिपूरिताश: । वात्यावपुस्स किल दैत्यवरस्तृणाव- र्ताख्यो जहार जनमानसहारिणं त्वाम् ॥२॥
उद्दामपांसुतिमिराहतदृष्टिपाते द्रष्टुं किमप्यकुशले पशुपाललोके । हा बालकस्य किमिति त्वदुपान्तमाप्ता माता भवन्तमविलोक्य भृशं रुरोद ॥३॥
तावत् स दानववरोऽपि च दीनमूर्ति: भावत्कभारपरिधारणलूनवेग: । सङ्कोचमाप तदनु क्षतपांसुघोषे घोषे व्यतायत भवज्जननीनिनाद: ॥४॥
रोदोपकर्णनवशादुपगम्य गेहं क्रन्दत्सु नन्दमुखगोपकुलेषु दीन: । त्वां दानवस्त्वखिलमुक्तिकरं मुमुक्षु: त्वय्यप्रमुञ्चति पपात वियत्प्रदेशात् ॥५॥
रोदाकुलास्तदनु गोपगणा बहिष्ठ- पाषाणपृष्ठभुवि देहमतिस्थविष्ठम् । प्रैक्षन्त हन्त निपतन्तममुष्य वक्ष- स्यक्षीणमेव च भवन्तमलं हसन्तम् ॥६॥
ग्रावप्रपातपरिपिष्टगरिष्ठदेह- भ्रष्टासुदुष्टदनुजोपरि धृष्टहासम् । आघ्नानमम्बुजकरेण भवन्तमेत्य गोपा दधुर्गिरिवरादिव नीलरत्नम् ॥७॥
एकैकमाशु परिगृह्य निकामनन्दन् नन्दादिगोपपरिरब्धविचुम्बिताङ्गम् । आदातुकामपरिशङ्कितगोपनारी- हस्ताम्बुजप्रपतितं प्रणुमो भवन्तम् ॥८॥
भूयोऽपि किन्नु कृणुम: प्रणतार्तिहारी गोविन्द एव परिपालयतात् सुतं न: । इत्यादि मातरपितृप्रमुखैस्तदानीं सम्प्रार्थितस्त्वदवनाय विभो त्वमेव ॥९॥
वातात्मकं दनुजमेवमयि प्रधून्वन् वातोद्भवान् मम गदान् किमु नो धुनोषि । किं वा करोमि पुनरप्यनिलालयेश निश्शेषरोगशमनं मुहुरर्थये त्वाम् ॥१०॥