पूतना मोक्षः

पूतना मोक्षः

Back to Narayaneeyam

Script

Translation

ॐ नमो नारायणाय
अथ श्रीमन्नारायणीयम्
चत्वारिंशम् दशकम्
पूतना मोक्ष:
तदनु नन्दममन्दशुभास्पदं नृपपुरीं करदानकृते गतम् । समवलोक्य जगाद भवत्पिता विदितकंससहायजनोद्यम: ॥१॥
अयि सखे तव बालकजन्म मां सुखयतेऽद्य निजात्मजजन्मवत् । इति भवत्पितृतां व्रजनायके समधिरोप्य शशंस तमादरात् ॥२॥
इह च सन्त्यनिमित्तशतानि ते कटकसीम्नि ततो लघु गम्यताम् । इति च तद्वचसा व्रजनायको भवदपायभिया द्रुतमाययौ ॥३॥
अवसरे खलु तत्र च काचन व्रजपदे मधुराकृतिरङ्गना । तरलषट्पदलालितकुन्तला कपटपोतक ते निकटं गता ॥४॥
सपदि सा हृतबालकचेतना निशिचरान्वयजा किल पूतना । व्रजवधूष्विह केयमिति क्षणं विमृशतीषु भवन्तमुपाददे ॥५॥
ललितभावविलासहृतात्मभिर्युवतिभि: प्रतिरोद्धुमपारिता । स्तनमसौ भवनान्तनिषेदुषी प्रददुषी भवते कपटात्मने ॥६॥
समधिरुह्य तदङ्कमशङ्कितस्त्वमथ बालकलोपनरोषित: । महदिवाम्रफलं कुचमण्डलं प्रतिचुचूषिथ दुर्विषदूषितम् ॥७॥
असुभिरेव समं धयति त्वयि स्तनमसौ स्तनितोपमनिस्वना । निरपतद्भयदायि निजं वपु: प्रतिगता प्रविसार्य भुजावुभौ ॥८॥
भयदघोषणभीषणविग्रहश्रवणदर्शनमोहितवल्लवे । व्रजपदे तदुर:स्थलखेलनं ननु भवन्तमगृह्णत गोपिका: । ।९॥
भुवनमङ्गलनामभिरेव ते युवतिभिर्बहुधा कृतरक्षण: । त्वमयि वातनिकेतननाथ मामगदयन् कुरु तावकसेवकम् ॥१०॥