योगमाया प्रादुर्भावः कृष्ण जन्म उत्सवः च

योगमाया प्रादुर्भावः कृष्ण जन्म उत्सवः च

Back to Narayaneeyam

Script

Translation

ॐ नमो नारायणाय
अथ श्रीमन्नारायणीयम्
एकोनचत्वारिंशम् दशकम्
योगमाया प्रादुर्भाव: कृष्ण जन्म उत्सव: च
भवन्तमयमुद्वहन् यदुकुलोद्वहो निस्सरन् ददर्श गगनोच्चलज्जलभरां कलिन्दात्मजाम् । अहो सलिलसञ्चय: स पुनरैन्द्रजालोदितो जलौघ इव तत्क्षणात् प्रपदमेयतामाययौ ॥१॥
प्रसुप्तपशुपालिकां निभृतमारुदद्बालिकाम् अपावृतकवाटिकां पशुपवाटिकामाविशन् । भवन्तमयमर्पयन् प्रसवतल्पके तत्पदात् वहन् कपटकन्यकां स्वपुरमागतो वेगत: ॥२॥
ततस्त्वदनुजारवक्षपितनिद्रवेगद्रवत् भटोत्करनिवेदितप्रसववार्तयैवार्तिमान् । विमुक्तचिकुरोत्करस्त्वरितमापतन् भोजराट् अतुष्ट इव दृष्टवान् भगिनिकाकरे कन्यकाम् ॥३॥
ध्रुवं कपटशालिनो मधुहरस्य माया भवेत् असाविति किशोरिकां भगिनिकाकरालिङ्गिताम् । द्विपो नलिनिकान्तरादिव मृणालिकामाक्षिपन् अयं त्वदनुजामजामुपलपट्टके पिष्टवान् ॥४॥
तत: भवदुपासको झटिति मृत्युपाशादिव प्रमुच्य तरसैव सा समधिरूढरूपान्तरा । अधस्तलमजग्मुषी विकसदष्टबाहुस्फुरन् महायुधमहो गता किल विहायसा दिद्युते ॥५॥
नृशंसतर कंस ते किमु मया विनिष्पिष्टया बभूव भवदन्तक: क्वचन चिन्त्यतां ते हितम् । इति त्वदनुजा विभो खलमुदीर्य तं जग्मुषी मरुद्गणपणायिता भुवि च मन्दिराण्येयुषी ॥६॥
प्रगे पुनरगात्मजावचनमीरिता भूभुजा प्रलम्बबकपूतनाप्रमुखदानवा मानिन: । भवन्निधनकाम्यया जगति बभ्रमुर्निर्भया: कुमारकविमारका: किमिव दुष्करं निष्कृपै: ॥७॥
तत: पशुपमन्दिरे त्वयि मुकुन्द नन्दप्रिया- प्रसूतिशयनेशये रुदति किञ्चिदञ्चत्पदे । विबुध्य वनिताजनैस्तनयसम्भवे घोषिते मुदा किमु वदाम्यहो सकलमाकुलं गोकुलम् ॥८॥
अहो खलु यशोदया नवकलायचेतोहरं भवन्तमलमन्तिके प्रथममापिबन्त्या दृशा । पुन: स्तनभरं निजं सपदि पाययन्त्या मुदा मनोहरतनुस्पृशा जगति पुण्यवन्तो जिता: ॥९॥
भवत्कुशलकाम्यया स खलु नन्दगोपस्तदा प्रमोदभरसङ्कुलो द्विजकुलाय किन्नाददात् । तथैव पशुपालका: किमु न मङ्गलं तेनिरे जगत्त्रितयमङ्गल त्वमिह पाहि मामामयात् ॥१०॥