पूतना देह दाहः कृष्ण लालन आह्लादः च

पूतना देह दाहः कृष्ण लालन आह्लादः च

Back to Narayaneeyam

Script

Translation

ॐ नमो नारायणाय
अथ श्रीमन्नारायणीयम्
एकचत्वारिंशम् दशकम्
पूतना देह दाह: कृष्ण लालन आह्लाद: च
व्रजेश्वरै: शौरिवचो निशम्य समाव्रजन्नध्वनि भीतचेता: । निष्पिष्टनिश्शेषतरुं निरीक्ष्य कञ्चित्पदार्थं शरणं गतस्त्वाम् ॥१॥
निशम्य गोपीवचनादुदन्तं सर्वेऽपि गोपा भयविस्मयान्धा: । त्वत्पातितं घोरपिशाचदेहं देहुर्विदूरेऽथ कुठारकृत्तम् ॥२॥
त्वत्पीतपूतस्तनतच्छरीरात् समुच्चलन्नुच्चतरो हि धूम: । शङ्कामधादागरव: किमेष किं चान्दनो गौल्गुलवोऽथवेति ॥३॥
मदङ्गसङ्गस्य फलं न दूरे क्षणेन तावत् भवतामपि स्यात् । इत्युल्लपन् वल्लवतल्लजेभ्य: त्वं पूतनामातनुथा: सुगन्धिम् ॥४॥
चित्रं पिशाच्या न हत: कुमार: चित्रं पुरैवाकथि शौरिणेदम् । इति प्रशंसन् किल गोपलोको भवन्मुखालोकरसे न्यमाङ्क्षीत् ॥५॥
दिनेदिनेऽथ प्रतिवृद्धलक्ष्मीरक्षीणमाङ्गल्यशतो व्रजोऽयम् । भवन्निवासादयि वासुदेव प्रमोदसान्द्र: परितो विरेजे ॥६॥
गृहेषु ते कोमलरूपहासमिथ:कथासङ्कुलिता: कमन्य: । वृत्तेषु कृत्येषु भवन्निरीक्षासमागता: प्रत्यहमत्यनन्दन् ॥७॥
अहो कुमारो मयि दत्तदृष्टि: स्मितं कृतं मां प्रति वत्सकेन । एह्येहि मामित्युपसार्य पाणी त्वयीश किं किं न कृतं वधूभि: ॥८॥
भवद्वपु:स्पर्शनकौतुकेन करात्करं गोपवधूजनेन । नीतस्त्वमाताम्रसरोजमालाव्यालम्बिलोलम्बतुलामलासी: ॥९॥
निपाययन्ती स्तनमङ्कगं त्वां विलोकयन्ती वदनं हसन्ती । दशां यशोदा कतमां न भेजे स तादृश: पाहि हरे गदान्माम् ॥१०॥