श्रीकृष्ण अवतारः
श्रीकृष्ण अवतारः
Script
Translation
Previous
श्रीकृष्ण अवतार प्रस्तावः
Next
योगमाया प्रादुर्भावः कृष्ण जन्म उत्सवः च
ॐ नमो नारायणाय
अथ श्रीमन्नारायणीयम्
अष्टत्रिंशम् दशकम्
श्रीकृष्ण अवतार:
आनन्दरूप भगवन्नयि तेऽवतारे
प्राप्ते प्रदीप्तभवदङ्गनिरीयमाणै: ।
कान्तिव्रजैरिव घनाघनमण्डलैर्द्याम्
आवृण्वती विरुरुचे किल वर्षवेला ॥१॥
आशासु शीतलतरासु पयोदतोयै:
आशासिताप्तिविवशेषु च सज्जनेषु ।
नैशाकरोदयविधौ निशि मध्यमायां
क्लेशापहस्त्रिजगतां त्वमिहाविरासी: ॥२॥
बाल्यस्पृशाऽपि वपुषा दधुषा विभूती:
उद्यत्किरीटकटकाङ्गदहारभासा ।
शङ्खारिवारिजगदापरिभासितेन
मेघासितेन परिलेसिथ सूतिगेहे ॥३॥
वक्ष:स्थलीसुखनिलीनविलासिलक्ष्मी-
मन्दाक्षलक्षितकटाक्षविमोक्षभेदै: ।
तन्मन्दिरस्य खलकंसकृतामलक्ष्मीम्
उन्मार्जयन्निव विरेजिथ वासुदेव ॥४॥
शौरिस्तु धीरमुनिमण्डलचेतसोऽपि
दूरस्थितं वपुरुदीक्ष्य निजेक्षणाभ्याम् ॥
शौरिस्तु धीरमुनिमण्डलचेतसोऽपि
दूरस्थितं वपुरुदीक्ष्य निजेक्षणाभ्याम् ॥
देव प्रसीद परपूरुष तापवल्ली-
निर्लूनदात्रसमनेत्रकलाविलासिन् ।
खेदानपाकुरु कृपागुरुभि: कटाक्षै:
इत्यादि तेन मुदितेन चिरं नुतोऽभू: ॥६॥
मात्रा च नेत्रसलिलास्तृतगात्रवल्या
स्तोत्रैरभिष्टुतगुण: करुणालयस्त्वम् ।
प्राचीनजन्मयुगलं प्रतिबोध्य ताभ्यां
मातुर्गिरा दधिथ मानुषबालवेषम् ॥७॥
त्वत्प्रेरितस्तदनु नन्दतनूजया ते
व्यत्यासमारचयितुं स हि शूरसूनु: ।
त्वां हस्तयोरधृत चित्तविधार्यमार्यै:
अम्भोरुहस्थकलहंसकिशोररम्यम् ॥८॥
जाता तदा पशुपसद्मनि योगनिद्रा ।
निद्राविमुद्रितमथाकृत पौरलोकम् ।
त्वत्प्रेरणात् किमिव चित्रमचेतनैर्यत्
द्वारै: स्वयं व्यघटि सङ्घटितै: सुगाढम् ॥९॥
शेषेण भूरिफणवारितवारिणाऽथ
स्वैरं प्रदर्शितपथो मणिदीपितेन ।
त्वां धारयन् स खलु धन्यतम: प्रतस्थे
सोऽयं त्वमीश मम नाशय रोगवेगान् ॥१०॥
Previous
श्रीकृष्ण अवतार प्रस्तावः
Next
योगमाया प्रादुर्भावः कृष्ण जन्म उत्सवः च