परशुराम चरितम्
परशुराम चरितम्
Script
Translation
Previous
श्रीमद् रामायणम् सुग्रीव सख्यात् प्रभृति
Next
श्रीकृष्ण अवतार प्रस्तावः
ॐ नमो नारायणाय
अथ श्रीमन्नारायणीयम्
षट्त्रिंशम् दशकम्
परशुराम चरितम्
अत्रे: पुत्रतया पुरा त्वमनसूयायां हि दत्ताभिधो
जात: शिष्यनिबन्धतन्द्रितमना: स्वस्थश्चरन् कान्तया ।
दृष्टो भक्ततमेन हेहयमहीपालेन तस्मै वरान्
अष्टैश्वर्यमुखान् प्रदाय ददिथ स्वेनैव चान्ते वधम् ॥१॥
सत्यं कर्तुमथार्जुनस्य च वरं तच्छक्तिमात्रानतं
ब्रह्मद्वेषि तदाखिलं नृपकुलं हन्तुं च भूमेर्भरम् ।
सञ्जातो जमदग्नितो भृगुकुले त्वं रेणुकायां हरे
रामो नाम तदात्मजेष्ववरज: पित्रोरधा: सम्मदम् ॥२॥
लब्धाम्नायगणश्चतुर्दशवया गन्धर्वराजे मनाग्
आसक्तां किल मातरं प्रति पितु: क्रोधाकुलस्याज्ञया ।
ताताज्ञातिगसोदरै: सममिमां छित्वाऽथ शान्तात् पितु:
तेषां जीवनयोगमापिथ वरं माता च तेऽदाद्वरान् ॥३॥
पित्रा मातृमुदे स्तवाहृतवियद्धेनोर्निजादाश्रमात्
प्रस्थायाथ भृगोर्गिरा हिमगिरावाराध्य गौरीपतिम् ।
लब्ध्वा तत्परशुं तदुक्तदनुजच्छेदी महास्त्रादिकं
प्राप्तो मित्रमथाकृतव्रणमुनिं प्राप्यागम: स्वाश्रमम् ॥४॥
आखेटोपगतोऽर्जुन: सुरगवीसम्प्राप्तसम्पद्गणै:
त्वत्पित्रा परिपूजित: पुरगतो दुर्मन्त्रिवाचा पुन: ।
गां क्रेतुं सचिवं न्ययुङ्क्त कुधिया तेनापि रुन्धन्मुनि-
प्राणक्षेपसरोषगोहतचमूचक्रेण वत्सो हृत: ॥५॥
शुक्रोज्जीविततातवाक्यचलितक्रोधोऽथ सख्या समं
बिभ्रद्ध्यातमहोदरोपनिहितं चापं कुठारं शरान् ।
आरूढ: सहवाहयन्तृकरथं माहिष्मतीमाविशन्
वाग्भिर्वत्समदाशुषि क्षितिपतौ सम्प्रास्तुथा: सङ्गरम् ॥६॥
पुत्राणामयुतेन सप्तदशभिश्चाक्षौहिणीभिर्महा-
सेनानीभिरनेकमित्रनिवहैर्व्याजृम्भितायोधन: ।
सद्यस्त्वत्ककुठारबाणविदलन्निश्शेषसैन्योत्करो
भीतिप्रद्रुतनष्टशिष्टतनयस्त्वामापतत् हेहय: ॥७॥
लीलावारितनर्मदाजलवलल्लङ्केशगर्वापह-
श्रीमद्बाहुसहस्रमुक्तबहुशस्त्रास्त्रं निरुन्धन्नमुम् ।
चक्रे त्वय्यथ वैष्णवेऽपि विफले बुद्ध्वा हरिं त्वां मुदा
ध्यायन्तं छितसर्वदोषमवधी: सोऽगात् परं ते पदम् ॥८॥
भूयोऽमर्षितहेहयात्मजगणैस्ताते हते रेणुकाम्
आघ्नानां हृदयं निरीक्ष्य बहुशो घोरां प्रतिज्ञां वहन् ।
ध्यानानीतरथायुधस्त्वमकृथा विप्रद्रुह: क्षत्रियान्
दिक्चक्रेषु कुठारयन् विशिखयन् नि:क्षत्रियां मेदिनीम् ॥९॥
तातोज्जीवनकृन्नृपालककुलं त्रिस्सप्तकृत्वो जयन्
सन्तर्प्याथ समन्तपञ्चकमहारक्तहृदौघे पितॄन्
यज्ञे क्ष्मामपि काश्यपादिषु दिशन् साल्वेन युध्यन् पुन:
कृष्णोऽमुं निहनिष्यतीति शमितो युद्धात् कुमारैर्भवान् ॥१०॥
न्यस्यास्त्राणि महेन्द्रभूभृति तपस्तन्वन् पुनर्मज्जितां
गोकर्णावधि सागरेण धरणीं दृष्ट्वार्थितस्तापसै: ।
ध्यातेष्वासधृतानलास्त्रचकितं सिन्धुं स्रुवक्षेपणात्
उत्सार्योद्धृतकेरलो भृगुपते वातेश संरक्ष माम् ॥११॥
Previous
श्रीमद् रामायणम् सुग्रीव सख्यात् प्रभृति
Next
श्रीकृष्ण अवतार प्रस्तावः