श्रीमद् रामायणम् सुग्रीव सख्यात् प्रभृति

श्रीमद् रामायणम् सुग्रीव सख्यात् प्रभृति

Back to Narayaneeyam

Script

Translation

ॐ नमो नारायणाय
अथ श्रीमन्नारायणीयम्
पञ्चत्रिंशम् दशकम्
श्रीमद् रामायणम् सुग्रीव सख्यात् प्रभृति
नीतस्सुग्रीवमैत्रीं तदनु हनुमता दुन्दुभे: कायमुच्चै: क्षिप्त्वाङ्गुष्ठेन भूयो लुलुविथ युगपत् पत्रिणा सप्त सालान् । हत्वा सुग्रीवघातोद्यतमतुलबलं वाालिनं व्याजवृत्त्या वर्षावेलामनैषीर्विरहतरलितस्त्वं मतङ्गाश्रमान्ते ॥१॥
सुग्रीवेणानुजोक्त्या सभयमभियता व्यूहितां वाहिनीं ताम् ऋक्षाणां वीक्ष्य दिक्षु द्रुतमथ दयितामार्गणायावनम्राम् । सन्देशं चाङ्गुलीयं पवनसुतकरे प्रादिशो मोदशाली मार्गे मार्गे ममार्गे कपिभिरपि तदा त्वत्प्रिया सप्रयासै: ॥२॥
त्वद्वार्ताकर्णनोद्यद्गरुदुरुजवसम्पातिसम्पातिवाक्य- प्रोत्तीर्णार्णोधिरन्तर्नगरि जनकजां वीक्ष्य दत्वाङ्गुलीयम् । प्रक्षुद्योद्यानमक्षक्षपणचणरण: सोढबन्धो दशास्यं दृष्ट्वा प्लुष्ट्वा च लङ्कां झटिति स हनुमान् मौलिरत्नं ददौ ते ॥३॥
त्वं सुग्रीवाङ्गदादिप्रबलकपिचमूचक्रविक्रान्तभूमी- चक्रोऽभिक्रम्य पारेजलधि निशिचरेन्द्रानुजाश्रीयमाण: । तत्प्रोक्तां शत्रुवार्तां रहसि निशमयन् प्रार्थनापार्थ्यरोष- प्रास्ताग्नेयास्त्रतेजस्त्रसदुदधिगिरा लब्धवान् मध्यमार्गम् ॥४॥
कीशैराशान्तरोपाहृतगिरिनिकरै: सेतुमाधाप्य यातो यातून्यामर्द्य दंष्ट्रानखशिखरिशिलासालशस्त्रै: स्वसैन्यै: । व्याकुर्वन् सानुजस्त्वं समरभुवि परं विक्रमं शक्रजेत्रा वेगान्नागास्त्रबद्ध: पतगपतिगरुन्मारुतैर्मोचितोऽभू: ॥५॥
सौमित्रिस्त्वत्र शक्तिप्रहृतिगलदसुर्वातजानीतशैल- घ्राणात् प्राणानुपेतो व्यकृणुत कुसृतिश्लाघिनं मेघनादम् । मायाक्षोभेषु वैभीषणवचनहृतस्तम्भन: कुम्भकर्णं सम्प्राप्तं कम्पितोर्वीतलमखिलचमूभक्षिणं व्यक्षिणोस्त्वम् ॥६॥
गृह्णन् जम्भारिसंप्रेषितरथकवचौ रावणेनाभियुद्ध्यन् ब्रह्मास्त्रेणास्य भिन्दन् गलततिमबलामग्निशुद्धां प्रगृह्णन् । देवश्रेणीवरोज्जीवितसमरमृतैरक्षतै: ऋक्षसङ्घैः लङ्काभर्त्रा च साकं निजनगरमगा: सप्रिय: पुष्पकेण ॥७॥
प्रीतो दिव्याभिषेकैरयुतसमधिकान् वत्सरान् पर्यरंसी: मैथिल्यां पापवाचा शिव! शिव! किल तां गर्भिणीमभ्यहासी: । शत्रुघ्नेनार्दयित्वा लवणनिशिचरं प्रार्दय: शूद्रपाशं तावद्वाल्मीकिगेहे कृतवसतिरुपासूत सीता सुतौ ते ॥८॥
वाल्मीकेस्त्वत्सुतोद्गापितमधुरकृतेराज्ञया यज्ञवाटे सीतां त्वय्याप्तुकामे क्षितिमविशदसौ त्वं च कालार्थितोऽभू: । हेतो: सौमित्रिघाती स्वयमथ सरयूमग्ननिश्शेषभृत्यै: साकं नाकं प्रयातो निजपदमगमो देव वैकुण्ठमाद्यम् ॥९॥
सोऽयं मर्त्यावतारस्तव खलु नियतं मर्त्यशिक्षार्थमेवं विश्लेषार्तिर्निरागस्त्यजनमपि भवेत् कामधर्मातिसक्त्या । नो चेत् स्वात्मानुभूते: क्व नु तव मनसो विक्रिया चक्रपाणे स त्वं सत्त्वैकमूर्ते पवनपुरपते व्याधुनु व्याधितापान् ॥१०॥