वामन अवतारः

वामन अवतारः

Back to Narayaneeyam

Script

Translation

ॐ नमो नारायणाय
अथ श्रीमन्नारायणीयम्
त्रिंशम् दशकम्
वामन अवतार:
शक्रेण संयति हतोऽपि बलिर्महात्मा शुक्रेण जीविततनु: क्रतुवर्धितोष्मा । विक्रान्तिमान् भयनिलीनसुरां त्रिलोकीं चक्रे वशे स तव चक्रमुखादभीत: ॥१॥
पुत्रार्तिदर्शनवशाददितिर्विषण्णा तं काश्यपं निजपतिं शरणं प्रपन्ना । त्वत्पूजनं तदुदितं हि पयोव्रताख्यं सा द्वादशाहमचरत्त्वयि भक्तिपूर्णा ॥२॥
तस्यावधौ त्वयि निलीनमतेरमुष्या: श्यामश्चतुर्भुजवपु: स्वयमाविरासी: । नम्रां च तामिह भवत्तनयो भवेयं गोप्यं मदीक्षणमिति प्रलपन्नयासी: ॥३॥
त्वं काश्यपे तपसि सन्निदधत्तदानीं प्राप्तोऽसि गर्भमदिते: प्रणुतो विधात्रा । प्रासूत च प्रकटवैष्णवदिव्यरूपं सा द्वादशीश्रवणपुण्यदिने भवन्तं ॥४॥
पुण्याश्रमं तमभिवर्षति पुष्पवर्षै: हर्षाकुले सुरगणे कृततूर्यघोषे । बध्वाऽञ्जलिं जय जयेति नुत: पितृभ्यां त्वं तत्क्षणे पटुतमं वटुरूपमाधा: ॥५॥
तावत्प्रजापतिमुखैरुपनीय मौञ्जी- दण्डाजिनाक्षवलयादिभिरर्च्यमान: । देदीप्यमानवपुरीश कृताग्निकार्य: त्वं प्रास्थिथा बलिगृहं प्रकृताश्वमेधम् ॥६॥
गात्रेण भाविमहिमोचितगौरवं प्राग् व्यावृण्वतेव धरणीं चलयन्नयासी: । छत्रं परोष्मतिरणार्थमिवादधानो दण्डं च दानवजनेष्विव सन्निधातुम् ॥७॥
तां नर्मदोत्तरतटे हयमेधशालाम् आसेदुषि त्वयि रुचा तव रुद्धनेत्रै: । भास्वान् किमेष दहनो नु सनत्कुमारो योगी नु कोऽयमिति शुक्रमुखैश्शशङ्के ॥८॥
आनीतमाशु भृगुभिर्महसाऽभिभूतै: त्वां रम्यरूपमसुर: पुलकावृताङ्ग: । भक्त्या समेत्य सुकृती परिणिज्य पादौ तत्तोयमन्वधृत मूर्धनि तीर्थतीर्थम् ॥९॥
प्रह्लादवंशजतया क्रतुभिर्द्विजेषु विश्वासतो नु तदिदं दितिजोऽपि लेभे । यत्ते पदाम्बु गिरिशस्य शिरोभिलाल्यं स त्वं विभो गुरुपुरालय पालयेथा: ॥१०॥