अमृत आहरणम् असुर निग्रहः च

अमृत आहरणम् असुर निग्रहः च

Back to Narayaneeyam

Script

Translation

ॐ नमो नारायणाय
अथ श्रीमन्नारायणीयम्
एकोनत्रिंशम् दशकम्
अमृत आहरणम् असुर निग्रह: च
उद्गच्छतस्तव करादमृतं हरत्सु दैत्येषु तानशरणाननुनीय देवान् । सद्यस्तिरोदधिथ देव भवत्प्रभावाद् उद्यत्स्वयूथ्यकलहा दितिजा बभूवु: ॥१॥
श्यामां रुचाऽपि वयसाऽपि तनुं तदानीं प्राप्तोऽसि तुङ्गकुचमण्डलभंगुरां त्वम् । पीयूषकुम्भकलहं परिमुच्य सर्वे तृष्णाकुला: प्रतिययुस्त्वदुरोजकुम्भे ॥२॥
का त्वं मृगाक्षि विभजस्व सुधामिमामि- त्यारूढरागविवशानभियाचतोऽमून् । विश्वस्यते मयि कथं कुलटाऽस्मि दैत्या इत्यालपन्नपि सुविश्वसितानतानी: ॥३॥
मोदात् सुधाकलशमेषु ददत्सु सा त्वं दुश्चेष्टितं मम सहध्वमिति ब्रुवाणा । पङ्क्तिप्रभेदविनिवेशितदेवदैत्या लीलाविलासगतिभि: समदा: सुधां ताम् ॥४॥
अस्मास्वियं प्रणयिणीत्यसुरेषु तेषु जोषं स्थितेष्वथ समाप्य सुधां सुरेषु । त्वं भक्तलोकवशगो निजरूपमेत्य स्वर्भानुमर्धपरिपीतसुधं व्यलावी: ॥५॥
त्वत्त: सुधाहरणयोग्यफलं परेषु दत्वा गते त्वयि सुरै: खलु ते व्यगृह्णन् । घोरेऽथ मूर्छति रणे बलिदैत्यमाया- व्यामोहिते सुरगणे त्वमिहाविरासी: ॥६॥
त्वं कालनेमिमथ मालिमुखाञ्जघन्थ शक्रो जघान बलिजम्भवलान् सपाकान् । शुष्कार्द्रदुष्करवधे नमुचौ च लूने फेनेन नारदगिरा न्यरुणो रणं त्वं ॥७॥
योषावपुर्दनुजमोहनमाहितं ते श्रुत्वा विलोकनकुतूहलवान् महेश: । भूतैस्समं गिरिजया च गत: पदं ते स्तुत्वाऽब्रवीदभिमतं त्वमथो तिरोधा: ॥८॥
आरामसीमनि च कन्दुकघातलीला- लोलायमाननयनां कमनीं मनोज्ञाम् । त्वामेष वीक्ष्य विगलद्वसनां मनोभू- वेगादनङ्गरिपुरङ्ग समालिलिङ्ग ॥९॥
भूयोऽपि विद्रुतवतीमुपधाव्य देवो वीर्यप्रमोक्षविकसत्परमार्थबोध: । त्वन्मानितस्तव महत्त्वमुवाच देव्यै तत्तादृशस्त्वमव वातनिकेतनाथ ॥१०॥