बलि दर्प उच्छेदः

बलि दर्प उच्छेदः

Back to Narayaneeyam

Script

Translation

ॐ नमो नारायणाय
अथ श्रीमन्नारायणीयम्
एकत्रिंशम् दशकम्
बलि दर्प उच्छेद:
प्रीत्या दैत्यस्तव तनुमह:प्रेक्षणात् सर्वथाऽपि त्वामाराध्यन्नजित रचयन्नञ्जलिं सञ्जगाद । मत्त: किं ते समभिलषितं विप्रसूनो वद त्वं वित्तं भक्तं भवनमवनीं वाऽपि सर्वं प्रदास्ये ॥१॥
तामक्षीणां बलिगिरमुपाकर्ण्य कारुण्यपूर्णोऽ- प्यस्योत्सेकं शमयितुमना दैत्यवंशं प्रशंसन् । भूमिं पादत्रयपरिमितां प्रार्थयामासिथ त्वं सर्वं देहीति तु निगदिते कस्य हास्यं न वा स्यात् ॥२॥
विश्वेशं मां त्रिपदमिह किं याचसे बालिशस्त्वं सर्वां भूमिं वृणु किममुनेत्यालपत्त्वां स दृप्यन् । यस्माद्दर्पात् त्रिपदपरिपूर्त्यक्षम: क्षेपवादान् बन्धं चासावगमदतदर्होऽपि गाढोपशान्त्यै ॥३॥
पादत्रय्या यदि न मुदितो विष्टपैर्नापि तुष्येद् इत्युक्तेऽस्मिन् वरद भवते दातुकामेऽथ तोयम् । दैत्याचार्यस्तव खलु परीक्षार्थिन: प्रेरणात्तं मा मा देयं हरिरयमिति व्यक्तमेवाबभाषे ॥४॥
याचत्येवं यदि स भगवान् पूर्णकामोऽस्मि सोऽहं दास्याम्येव स्थिरमिति वदन् काव्यशप्तोऽपि दैत्य: । विन्ध्यावल्या निजदयितया दत्तपाद्याय तुभ्यं चित्रं चित्रं सकलमपि स प्रार्पयत्तोयपूर्वम् ॥५॥
निस्सन्देहं दितिकुलपतौ त्वय्यशेषार्पणं तद्- व्यातन्वाने मुमुचु: ऋषय: सामरा: पुष्पवर्षम् । दिव्यं रूपं तव च तदिदं पश्यतां विश्वभाजाम् उच्चैरुच्चैरवृधदवधीकृत्य विश्वाण्डभाण्डम् ॥६॥
त्वत्पादाग्रं निजपदगतं पुण्डरीकोद्भवोऽसौ कुण्डीतोयैरसिचदपुनाद्यज्जलं विश्वलोकान् । हर्षोत्कर्षात् सुबहु ननृते खेचरैरुत्सवेऽस्मिन् भेरीं निघ्नन् भुवनमचरज्जाम्बवान् भक्तिशाली ॥७॥
तावद्दैत्यास्त्वनुमतिमृते भर्तुरारब्धयुद्धा देवोपेतैर्भवदनुचरैस्सङ्गता भङ्गमापन् । कालात्माऽयं वसति पुरतो यद्वशात् प्राग्जिता: स्म: किं वो युद्धैरिति बलिगिरा तेऽथ पातालमापु: ॥८॥
पाशैर्बद्धं पतगपतिना दैत्यमुच्चैरवादी: तार्त्तीयीकं दिश मम पदं किं न विश्वेश्वरोऽसि । पादं मूर्ध्नि प्रणय भगवन्नित्यकम्पं वदन्तं प्रह्लादस्तं स्वयमुपगतो मानयन्नस्तवीत्त्वाम् ॥९॥
दर्पोच्छित्त्यै विहितमखिलं दैत्य सिद्धोऽसि पुण्यै: लोकस्तेऽस्तु त्रिदिवविजयी वासवत्वं च पश्चात् । मत्सायुज्यं भज च पुनरित्यन्वगृह्णा बलिं तं विप्रैस्सन्तानितमखवर: पाहि वातालयेश ॥१०॥