लक्ष्मी स्वयंवरः अमृत प्रादुर्भावः च
लक्ष्मी स्वयंवरः अमृत प्रादुर्भावः च
Script
Translation
Previous
क्षीराब्धि मथनं कूर्मावतारः च
Next
अमृत आहरणम् असुर निग्रहः च
ॐ नमो नारायणाय
अथ श्रीमन्नारायणीयम्
अष्टाविंशम् दशकम्
लक्ष्मी स्वयंवर: अमृत प्रादुर्भाव: च
गरलं तरलानलं पुरस्तात्
जलधेरुद्विजगाल कालकूटम् ।
अमरस्तुतिवादमोदनिघ्नो
गिरिशस्तन्निपपौ भवत्प्रियार्थम् ॥१॥
विमथत्सु सुरासुरेषु जाता
सुरभिस्तामृषिषु न्यधास्त्रिधामन् ।
हयरत्नमभूदथेभरत्नं
द्युतरुश्चाप्सरस: सुरेषु तानि ॥२॥
जगदीश भवत्परा तदानीं
कमनीया कमला बभूव देवी ।
अमलामवलोक्य यां विलोल:
सकलोऽपि स्पृहयाम्बभूव लोक: ॥३॥
त्वयि दत्तहृदे तदैव देव्यै
त्रिदशेन्द्रो मणिपीठिकां व्यतारीत् ।
सकलोपहृताभिषेचनीयै:
ऋषयस्तां श्रुतिगीर्भिरभ्यषिञ्चन् ॥४॥
अभिषेकजलानुपातिमुग्ध-
त्वदपाङ्गैरवभूषिताङ्गवल्लीम् ।
मणिकुण्डलपीतचेलहार-
प्रमुखैस्ताममरादयोऽन्वभूषन् ॥५॥
वरणस्रजमात्तभृङ्गनादां
दधती सा कुचकुम्भमन्दयाना ।
पदशिञ्जितमञ्जुनूपुरा त्वां
कलितव्रीलविलासमाससाद ॥६॥
गिरिशद्रुहिणादिसर्वदेवान्
गुणभाजोऽप्यविमुक्तदोषलेशान् ।
अवमृश्य सदैव सर्वरम्ये
निहिता त्वय्यनयाऽपि दिव्यमाला ॥७॥
उरसा तरसा ममानिथैनां
भुवनानां जननीमनन्यभावाम् ।
त्वदुरोविलसत्तदीक्षणश्री-
परिवृष्ट्या परिपुष्टमास विश्वम् ॥८॥
अतिमोहनविभ्रमा तदानीं
मदयन्ती खलु वारुणी निरागात् ।
तमस: पदवीमदास्त्वमेनाम्
अतिसम्माननया महासुरेभ्य: ॥९॥
तरुणाम्बुदसुन्दरस्तदा त्वं
ननु धन्वन्तरिरुत्थितोऽम्बुराशे: ।
अमृतं कलशे वहन् कराभ्याम्
अखिलार्तिं हर मारुतालयेश ॥१०॥
Previous
क्षीराब्धि मथनं कूर्मावतारः च
Next
अमृत आहरणम् असुर निग्रहः च