क्षीराब्धि मथनं कूर्मावतारः च

क्षीराब्धि मथनं कूर्मावतारः च

Back to Narayaneeyam

Script

Translation

ॐ नमो नारायणाय
अथ श्रीमन्नारायणीयम्
सप्तविंशम् दशकम्
क्षीराब्धि मथनं कूर्मावतार: च
दुर्वासास्सुरवनिताप्तदिव्यमाल्यं शक्राय स्वयमुपदाय तत्र भूय: । नागेन्द्रप्रतिमृदिते शशाप शक्रं का क्षान्तिस्त्वदितरदेवतांशजानाम् ॥१॥
शापेन प्रथितजरेऽथ निर्जरेन्द्रे देवेष्वप्यसुरजितेषु निष्प्रभेषु । शर्वाद्या: कमलजमेत्य सर्वदेवा निर्वाणप्रभव समं भवन्तमापु: ॥२॥
ब्रह्माद्यै: स्तुतमहिमा चिरं तदानीं प्रादुष्षन् वरद पुर: परेण धाम्ना । हे देवा दितिजकुलैर्विधाय सन्धिं पीयूषं परिमथतेति पर्यशास्त्वम् ॥३॥
सन्धानं कृतवति दानवै: सुरौघे मन्थानं नयति मदेन मन्दराद्रिम् । भ्रष्टेऽस्मिन् बदरमिवोद्वहन् खगेन्द्रे सद्यस्त्वं विनिहितवान् पय:पयोधौ ॥४॥
आधाय द्रुतमथ वासुकिं वरत्रां पाथोधौ विनिहितसर्वबीजजाले । प्रारब्धे मथनविधौ सुरासुरैस्तैः व्याजात्त्वं भुजगमुखेऽकरोस्सुरारीन् ॥५॥
क्षुब्धाद्रौ क्षुभितजलोदरे तदानीं दुग्धाब्धौ गुरुतरभारतो निमग्ने । देवेषु व्यथिततमेषु तत्प्रियैषी प्राणैषी: कमठतनुं कठोरपृष्ठाम् ॥६॥
वज्रातिस्थिरतरकर्परेण विष्णो विस्तारात्परिगतलक्षयोजनेन । अम्भोधे: कुहरगतेन वर्ष्मणा त्वं निर्मग्नं क्षितिधरनाथमुन्निनेथ ॥७॥
उन्मग्ने झटिति तदा धराधरेन्द्रे निर्मेथुर्दृढमिह सम्मदेन सर्वे । आविश्य द्वितयगणेऽपि सर्पराजे वैवश्यं परिशमयन्नवीवृधस्तान् ॥८॥
उद्दामभ्रमणजवोन्नमद्गिरीन्द्र- न्यस्तैकस्थिरतरहस्तपङ्कजं त्वाम् । अभ्रान्ते विधिगिरिशादय: प्रमोदाद् उद्भ्रान्ता नुनुवुरुपात्तपुष्पवर्षा: ॥९॥
दैत्यौघे भुजगमुखानिलेन तप्ते तेनैव त्रिदशकुलेऽपि किञ्चिदार्ते । कारुण्यात्तव किल देव वारिवाहा: प्रावर्षन्नमरगणान्न दैत्यसङ्घान् ॥१०॥
उद्भ्राम्यद्बहुतिमिनक्रचक्रवाले तत्राब्धौ चिरमथितेऽपि निर्विकारे । एकस्त्वं करयुगकृष्टसर्पराज: संराजन् पवनपुरेश पाहि रोगात् ॥११॥