गजेन्द्र मोक्षः

गजेन्द्र मोक्षः

Back to Narayaneeyam

Script

Translation

ॐ नमो नारायणाय
अथ श्रीमन्नारायणीयम्
षड्विंशम् दशकम्
गजेन्द्र मोक्ष:
इन्द्रद्युम्न: पाण्ड्यखण्डाधिराज: त्वद्भक्तात्मा चन्दनाद्रौ कदाचित् । त्वत् सेवायां मग्नधीरालुलोके नैवागस्त्यं प्राप्तमातिथ्यकामम् ॥१॥
कुम्भोद्भूति: संभृतक्रोधभार: स्तब्धात्मा त्वं हस्तिभूयं भजेति । शप्त्वाऽथैनं प्रत्यगात् सोऽपि लेभे हस्तीन्द्रत्वं त्वत्स्मृतिव्यक्तिधन्यम् ॥२॥
दग्धाम्भोधेर्मध्यभाजि त्रिकूटे क्रीडच्छैले यूथपोऽयं वशाभि: । सर्वान् जन्तूनत्यवर्तिष्ट शक्त्या त्वद्भक्तानां कुत्र नोत्कर्षलाभ: ॥३॥
स्वेन स्थेम्ना दिव्यदेशत्वशक्त्या सोऽयं खेदानप्रजानन् कदाचित् । शैलप्रान्ते घर्मतान्त: सरस्यां यूथैस्सार्धं त्वत्प्रणुन्नोऽभिरेमे ॥४॥
हूहूस्तावद्देवलस्यापि शापात् ग्राहीभूतस्तज्जले वर्तमान: । जग्राहैनं हस्तिनं पाददेशे शान्त्यर्थं हि श्रान्तिदोऽसि स्वकानाम् ॥५॥
त्वत्सेवाया वैभवात् दुर्निरोधं युध्यन्तं तं वत्सराणां सहस्रम् । प्राप्ते काले त्वत्पदैकाग्र्यसिध्यै नक्राक्रान्तं हस्तिवर्यं व्यधास्त्वम् ॥६॥
आर्तिव्यक्तप्राक्तनज्ञानभक्ति: शुण्डोत्क्षिप्तै: पुण्डरीकै: समर्चन् । पूर्वाभ्यस्तं निर्विशेषात्मनिष्ठं स्तोत्रं श्रेष्ठं सोऽन्वगादीत् परात्मन् ॥७॥
श्रुत्वा स्तोत्रं निर्गुणस्थं समस्तं ब्रह्मेशाद्यैर्नाहमित्यप्रयाते । सर्वात्मा त्वं भूरिकारुण्यवेगात् तार्क्ष्यारूढ: प्रेक्षितोऽभू: पुरस्तात् ॥८॥
हस्तीन्द्रं तं हस्तपद्मेन धृत्वा चक्रेण त्वं नक्रवर्यं व्यदारी: । गन्धर्वेऽस्मिन् मुक्तशापे स हस्ती त्वत्सारूप्यं प्राप्य देदीप्यते स्म ॥९॥
एतद्वृत्तं त्वां च मां च प्रगे यो गायेत्सोऽयं भूयसे श्रेयसे स्यात् । इत्युक्त्वैनं तेन सार्धं गतस्त्वं धिष्ण्यं विष्णो पाहि वातालयेश ॥१०॥