ऋषभ योगीश्वर चरितम्

ऋषभ योगीश्वर चरितम्

Back to Narayaneeyam

Script

Translation

ॐ नमो नारायणाय
अथ श्रीमन्नारायणीयम्
विंशम् दशकम्
ऋषभ योगीश्वर चरितम्
प्रियव्रतस्य प्रियपुत्रभूताद् आग्नीध्रराजादुदितो हि नाभि: । त्वां दृष्टवानिष्टदमिष्टिमध्ये तवैव तुष्ट्यै कृतयज्ञकर्मा ॥१॥
अभिष्टुतस्तत्र मुनीश्वरैस्त्वं राज्ञ: स्वतुल्यं सुतमर्थ्यमान: । स्वयं जनिष्येऽहमिति ब्रुवाणः तिरोदधा बर्हिषि विश्वमूर्ते ॥२॥
नाभिप्रियायामथ मेरुदेव्यां त्वमंशतोऽभू: ऋषभाभिधान: । अलोकसामान्यगुणप्रभाव- प्रभाविताशेषजनप्रमोद: ॥३॥
त्वयि त्रिलोकीभृति राज्यभारं निधाय नाभि: सह मेरुदेव्या । तपोवनं प्राप्य भवन्निषेवी गत: किलानन्दपदं पदं ते ॥४॥
इन्द्रस्त्वदुत्कर्षकृतादमर्षाद् ववर्ष नास्मिन्नजनाभवर्षे । यदा तदा त्वं निजयोगशक्त्या स्ववर्षमेनद्व्यदधा: सुवर्षम् ॥५॥
जितेन्द्रदत्तां कमनीं जयन्तीम् अथोद्वहन्नात्मरताशयोऽपि । अजीजनस्तत्र शतं तनूजान् एषां क्षितीशो भरतोऽग्रजन्मा ॥६॥
नवाभवन् योगिवरा नवान्ये त्वपालयन् भारतवर्षखण्डान् । सैका त्वशीतिस्तव शेषपुत्रः तपोबलात् भूसुरभूयमीयु: ॥७॥
उक्त्वा सुतेभ्योऽथ मुनीन्द्रमध्ये विरक्तिभक्त्यन्वितमुक्तिमार्गम् । स्वयं गत: पारमहंस्यवृत्तिम् अधा जडोन्मत्तपिशाचचर्याम् ॥८॥
परात्मभूतोऽपि परोपदेशं कुर्वन् भवान् सर्वनिरस्यमान: । विकारहीनो विचचार कृत्स्नां महीमहीनात्मरसाभिलीन: ॥९॥
शयुव्रतं गोमृगकाकचर्यां चिरं चरन्नाप्य परं स्वरूपं । दवाहृताङ्ग: कुटकाचले त्वं तापान् ममापाकुरु वातनाथ ॥१०॥