प्रचेतसाम् कथा

प्रचेतसाम् कथा

Back to Narayaneeyam

Script

Translation

ॐ नमो नारायणाय
अथ श्रीमन्नारायणीयम्
एकोनविंशम् दशकम्
प्रचेतसाम् कथा
पृथोस्तु नप्ता पृथुधर्मकर्मठ: प्राचीनबर्हिर्युवतौ शतद्रुतौ । प्रचेतसो नाम सुचेतस: सुतान् अजीजनत्त्वत्करुणाङ्कुरानिव ॥१॥
पितु: सिसृक्षानिरतस्य शासनाद् भवत्तपस्याभिरता दशापि ते पयोनिधिं पश्चिममेत्य तत्तटे सरोवरं सन्ददृशुर्मनोहरम् ॥२॥
तदा भवत्तीर्थमिदं समागतो भवो भवत्सेवकदर्शनादृत: । प्रकाशमासाद्य पुर: प्रचेतसाम् उपादिशत् भक्ततमस्तव स्तवम् ॥३॥
स्तवं जपन्तस्तममी जलान्तरे भवन्तमासेविषतायुतं समा: । भवत्सुखास्वादरसादमीष्वियान् बभूव कालो ध्रुववन्न शीघ्रता ॥४॥
तपोभिरेषामतिमात्रवर्धिभि: स यज्ञहिंसानिरतोऽपि पावित: । पिताऽपि तेषां गृहयातनारद- प्रदर्शितात्मा भवदात्मतां ययौ ॥५॥
कृपाबलेनैव पुर: प्रचेतसां प्रकाशमागा: पतगेन्द्रवाहन: । विराजि चक्रादिवरायुधांशुभिः भुजाभिरष्टाभिरुदञ्चितद्युति: ॥६॥
प्रचेतसां तावदयाचतामपि त्वमेव कारुण्यभराद्वरानदा: । भवद्विचिन्ताऽपि शिवाय देहिनां भवत्वसौ रुद्रनुतिश्च कामदा ॥७॥
अवाप्य कान्तां तनयां महीरुहां तया रमध्वं दशलक्षवत्सरीम् । सुतोऽस्तु दक्षो ननु तत्क्षणाच्च मां प्रयास्यथेति न्यगदो मुदैव तान् ॥८॥
ततश्च ते भूतलरोधिनस्तरून् क्रुधा दहन्तो द्रुहिणेन वारिता: । द्रुमैश्च दत्तां तनयामवाप्य तां त्वदुक्तकालं सुखिनोऽभिरेमिरे ॥९॥
अवाप्य दक्षं च सुतं कृताध्वरा: प्रचेतसो नारदलब्धया धिया । अवापुरानन्दपदं तथाविधः त्वमीश वातालयनाथ पाहि माम् ॥१०॥