नव वर्षाणि सप्त द्वीपादायः च

नव वर्षाणि सप्त द्वीपादायः च

Back to Narayaneeyam

Script

Translation

ॐ नमो नारायणाय
अथ श्रीमन्नारायणीयम्
एकविंशम् दशकम्
नव वर्षाणि सप्त द्वीपादाय: च
मध्योद्भवे भुव इलावृतनाम्नि वर्षे गौरीप्रधानवनिताजनमात्रभाजि । शर्वेण मन्त्रनुतिभि: समुपास्यमानं सङ्कर्षणात्मकमधीश्वर संश्रये त्वाम् ॥१॥
भद्राश्वनामक इलावृतपूर्ववर्षे भद्रश्रवोभिर्ऋषिभि: परिणूयमानम् । कल्पान्तगूढनिगमोद्धरणप्रवीणं ध्यायामि देव हयशीर्षतनुं भवन्तम् ॥२॥
ध्यायामि दक्षिणगते हरिवर्षवर्षे प्रह्लादमुख्यपुरुषै: परिषेव्यमाणम् । उत्तुङ्गशान्तधवलाकृतिमेकशुद्ध- ज्ञानप्रदं नरहरिं भगवन् भवन्तम् ॥३॥
वर्षे प्रतीचि ललितात्मनि केतुमाले लीलाविशेषललितस्मितशोभनाङ्गम् । लक्ष्म्या प्रजापतिसुतैश्च निषेव्यमाणं तस्या: प्रियाय धृतकामतनुं भजे त्वाम् ॥४॥
रम्येप्युदीचि खलु रम्यकनाम्नि वर्षे तद्वर्षनाथमनुवर्यसपर्यमाणम् । भक्तैकवत्सलममत्सरहृत्सु भान्तं मत्स्याकृतिं भुवननाथ भजे भवन्तम् ॥५॥
वर्षं हिरण्मयसमाह्वयमौत्तराहम् आसीनमद्रिधृतिकर्मठकामठाङ्गम् । संसेवते पितृगणप्रवरोऽर्यमा यं तं त्वां भजामि भगवन् परचिन्मयात्मन् ॥६॥
किञ्चोत्तरेषु कुरुषु प्रियया धरण्या संसेवितो महितमन्त्रनुतिप्रभेदै: । दंष्ट्राग्रघृष्टघनपृष्ठगरिष्ठवर्ष्मा त्वं पाहि विज्ञनुत यज्ञवराहमूर्ते ॥७॥
याम्यां दिशं भजति किंपुरुषाख्यवर्षे संसेवितो हनुमता दृढभक्तिभाजा । सीताभिरामपरमाद्भुतरूपशाली रामात्मक: परिलसन् परिपाहि विष्णो ॥८॥
श्रीनारदेन सह भारतखण्डमुख्यैः त्वं साङ्ख्ययोगनुतिभि: समुपास्यमान: । आकल्पकालमिह साधुजनाभिरक्षी नारायणो नरसख: परिपाहि भूमन् ॥९॥
प्लाक्षेऽर्करूपमयि शाल्मल इन्दुरूपं द्वीपे भजन्ति कुशनामनि वह्निरूपम् । क्रौञ्चेऽम्बुरूपमथ वायुमयं च शाके त्वां ब्रह्मरूपमयि पुष्करनाम्नि लोका: ॥१०॥
सर्वैर्ध्रुवादिभिरुडुप्रकरैर्ग्रहैश्च पुच्छादिकेष्ववयवेष्वभिकल्प्यमानै: । त्वं शिंशुमारवपुषा महतामुपास्य: सन्ध्यासु रुन्धि नरकं मम सिन्धुशायिन् ॥११॥
पातालमूलभुवि शेषतनुं भवन्तं लोलैककुण्डलविराजिसहस्रशीर्षम् । नीलाम्बरं धृतहलं भुजगाङ्गनाभिः जुष्टं भजे हर गदान् गुरुगेहनाथ ॥१२॥