पृथु चरितम्
पृथु चरितम्
Script
Translation
Previous
ध्रुव चरितम्
Next
प्रचेतसाम् कथा
ॐ नमो नारायणाय
अथ श्रीमन्नारायणीयम्
अष्टादशम् दशकम्
पृथु चरितम्
जातस्य ध्रुवकुल एव तुङ्गकीर्तेः
अङ्गस्य व्यजनि सुत: स वेननामा ।
यद्दोषव्यथितमति: स राजवर्यः
त्वत्पादे निहितमना वनं गतोऽभूत् ॥१॥
पापोऽपि क्षितितलपालनाय वेन:
पौराद्यैरुपनिहित: कठोरवीर्य: ।
सर्वेभ्यो निजबलमेव सम्प्रशंसन्
भूचक्रे तव यजनान्ययं न्यरौत्सीत् ॥२॥
सम्प्राप्ते हितकथनाय तापसौघे
मत्तोऽन्यो भुवनपतिर्न कश्चनेति ।
त्वन्निन्दावचनपरो मुनीश्वरैस्तै:
शापाग्नौ शलभदशामनायि वेन: ॥३॥
तन्नाशात् खलजनभीरुकैर्मुनीन्द्रैः
तन्मात्रा चिरपरिरक्षिते तदङ्गे ।
त्यक्ताघे परिमथितादथोरुदण्डाद्
दोर्दण्डे परिमथिते त्वमाविरासी: ॥४॥
विख्यात: पृथुरिति तापसोपदिष्टै:
सूताद्यै: परिणुतभाविभूरिवीर्य: ।
वेनार्त्या कबलितसम्पदं धरित्रीम्
आक्रान्तां निजधनुषा समामकार्षी: ॥५॥
भूयस्तां निजकुलमुख्यवत्सयुक्त्यैः
देवाद्यै: समुचितचारुभाजनेषु ।
अन्नादीन्यभिलषितानि यानि तानि
स्वच्छन्दं सुरभितनूमदूदुहस्त्वम् ॥६॥
आत्मानं यजति मखैस्त्वयि त्रिधामन्
आरब्धे शततमवाजिमेधयागे ।
स्पर्धालु: शतमख एत्य नीचवेषो
हृत्वाऽश्वं तव तनयात् पराजितोऽभूत् ॥७॥
देवेन्द्रं मुहुरिति वाजिनं हरन्तं
वह्नौ तं मुनिवरमण्डले जुहूषौ ।
रुन्धाने कमलभवे क्रतो: समाप्तौ
साक्षात्त्वं मधुरिपुमैक्षथा: स्वयं स्वम् ॥८॥
तद्दत्तं वरमुपलभ्य भक्तिमेकां
गङ्गान्ते विहितपद: कदापि देव ।
सत्रस्थं मुनिनिवहं हितानि शंसन्
ऐक्षिष्ठा: सनकमुखान् मुनीन् पुरस्तात् ॥९॥
विज्ञानं सनकमुखोदितं दधान:
स्वात्मानं स्वयमगमो वनान्तसेवी ।
तत्तादृक्पृथुवपुरीश सत्वरं मे
रोगौघं प्रशमय वातगेहवासिन् ॥१०॥
Previous
ध्रुव चरितम्
Next
प्रचेतसाम् कथा