पृथु चरितम्

पृथु चरितम्

Back to Narayaneeyam

Script

Translation

ॐ नमो नारायणाय
अथ श्रीमन्नारायणीयम्
अष्टादशम् दशकम्
पृथु चरितम्
जातस्य ध्रुवकुल एव तुङ्गकीर्तेः अङ्गस्य व्यजनि सुत: स वेननामा । यद्दोषव्यथितमति: स राजवर्यः त्वत्पादे निहितमना वनं गतोऽभूत् ॥१॥
पापोऽपि क्षितितलपालनाय वेन: पौराद्यैरुपनिहित: कठोरवीर्य: । सर्वेभ्यो निजबलमेव सम्प्रशंसन् भूचक्रे तव यजनान्ययं न्यरौत्सीत् ॥२॥
सम्प्राप्ते हितकथनाय तापसौघे मत्तोऽन्यो भुवनपतिर्न कश्चनेति । त्वन्निन्दावचनपरो मुनीश्वरैस्तै: शापाग्नौ शलभदशामनायि वेन: ॥३॥
तन्नाशात् खलजनभीरुकैर्मुनीन्द्रैः तन्मात्रा चिरपरिरक्षिते तदङ्गे । त्यक्ताघे परिमथितादथोरुदण्डाद् दोर्दण्डे परिमथिते त्वमाविरासी: ॥४॥
विख्यात: पृथुरिति तापसोपदिष्टै: सूताद्यै: परिणुतभाविभूरिवीर्य: । वेनार्त्या कबलितसम्पदं धरित्रीम् आक्रान्तां निजधनुषा समामकार्षी: ॥५॥
भूयस्तां निजकुलमुख्यवत्सयुक्त्यैः देवाद्यै: समुचितचारुभाजनेषु । अन्नादीन्यभिलषितानि यानि तानि स्वच्छन्दं सुरभितनूमदूदुहस्त्वम् ॥६॥
आत्मानं यजति मखैस्त्वयि त्रिधामन् आरब्धे शततमवाजिमेधयागे । स्पर्धालु: शतमख एत्य नीचवेषो हृत्वाऽश्वं तव तनयात् पराजितोऽभूत् ॥७॥
देवेन्द्रं मुहुरिति वाजिनं हरन्तं वह्नौ तं मुनिवरमण्डले जुहूषौ । रुन्धाने कमलभवे क्रतो: समाप्तौ साक्षात्त्वं मधुरिपुमैक्षथा: स्वयं स्वम् ॥८॥
तद्दत्तं वरमुपलभ्य भक्तिमेकां गङ्गान्ते विहितपद: कदापि देव । सत्रस्थं मुनिनिवहं हितानि शंसन् ऐक्षिष्ठा: सनकमुखान् मुनीन् पुरस्तात् ॥९॥
विज्ञानं सनकमुखोदितं दधान: स्वात्मानं स्वयमगमो वनान्तसेवी । तत्तादृक्पृथुवपुरीश सत्वरं मे रोगौघं प्रशमय वातगेहवासिन् ॥१०॥