ध्रुव चरितम्
ध्रुव चरितम्
Script
Translation
Previous
नर नारायणयोः अवतारः दक्ष यागः च
Next
पृथु चरितम्
ॐ नमो नारायणाय
अथ श्रीमन्नारायणीयम्
सप्तदशम् दशकम्
ध्रुव चरितम्
उत्तानपादनृपतेर्मनुनन्दनस्य
जाया बभूव सुरुचिर्नितरामभीष्टा ।
अन्या सुनीतिरिति भर्तुरनादृता सा
त्वामेव नित्यमगति: शरणं गताऽभूत् ॥१॥
अङ्के पितु: सुरुचिपुत्रकमुत्तमं तं
दृष्ट्वा ध्रुव: किल सुनीतिसुतोऽधिरोक्ष्यन् ।
आचिक्षिपे किल शिशु: सुतरां सुरुच्या
दुस्सन्त्यजा खलु भवद्विमुखैरसूया ॥२॥
त्वन्मोहिते पितरि पश्यति दारवश्ये
दूरं दुरुक्तिनिहत: स गतो निजाम्बाम् ।
साऽपि स्वकर्मगतिसन्तरणाय पुंसां
त्वत्पादमेव शरणं शिशवे शशंस ॥३॥
आकर्ण्य सोऽपि भवदर्चननिश्चितात्मा
मानी निरेत्य नगरात् किल पञ्चवर्ष: ।
सन्दृष्टनारदनिवेदितमन्त्रमार्ग:
त्वामारराध तपसा मधुकाननान्ते ॥४॥
ताते विषण्णहृदये नगरीं गतेन
श्रीनारदेन परिसान्त्वितचित्तवृत्तौ ।
बालस्त्वदर्पितमना: क्रमवर्धितेन
निन्ये कठोरतपसा किल पञ्चमासान् ॥५॥
तावत्तपोबलनिरुच्छ्वसिते दिगन्ते
देवार्थितस्त्वमुदयत्करुणार्द्रचेता: ।
त्वद्रूपचिद्रसनिलीनमते: पुरस्ताद्
आविर्बभूविथ विभो गरुडाधिरूढ: ॥६॥
त्वद्दर्शनप्रमदभारतरङ्गितं तं
दृग्भ्यां निमग्नमिव रूपरसायने ते ।
तुष्टूषमाणमवगम्य कपोलदेशे
संस्पृष्टवानसि दरेण तथाऽऽदरेण ॥७॥
तावद्विबोधविमलं प्रणुवन्तमेनम्
आभाषथास्त्वमवगम्य तदीयभावम् ।
राज्यं चिरं समनुभूय भजस्व भूय:
सर्वोत्तरं ध्रुव पदं विनिवृत्तिहीनम् ॥८॥
इत्यूचिषि त्वयि गते नृपनन्दनोऽसौ
आनन्दिताखिलजनो नगरीमुपेत: ।
रेमे चिरं भवदनुग्रहपूर्णकाम:
ताते गते च वनमादृतराज्यभार: ॥९॥
यक्षेण देव निहते पुनरुत्तमेऽस्मिन्
यक्षै: स युद्धनिरतो विरतो मनूक्त्या ।
शान्त्या प्रसन्नहृदयाद्धनदादुपेतात्
त्वद्भक्तिमेव सुदृढामवृणोन्महात्मा ॥१०॥
अन्ते भवत्पुरुषनीतविमानयातो
मात्रा समं ध्रुवपदे मुदितोऽयमास्ते ।
एवं स्वभृत्यजनपालनलोलधीस्त्वं
वातालयाधिप निरुन्धि ममामयौघान् ॥११॥
Previous
नर नारायणयोः अवतारः दक्ष यागः च
Next
पृथु चरितम्