नर नारायणयोः अवतारः दक्ष यागः च
नर नारायणयोः अवतारः दक्ष यागः च
Script
Translation
Previous
कपिल उपदेशः
Next
ध्रुव चरितम्
ॐ नमो नारायणाय
अथ श्रीमन्नारायणीयम्
षोडशम् दशकम्
नर नारायणयो: अवतार: दक्ष याग: च
दक्षो विरिञ्चतनयोऽथ मनोस्तनूजां
लब्ध्वा प्रसूतिमिह षोडश चाप कन्या: ।
धर्मे त्रयोदश ददौ पितृषु स्वधां च
स्वाहां हविर्भुजि सतीं गिरिशे त्वदंशे ॥१॥
मूर्तिर्हि धर्मगृहिणी सुषुवे भवन्तं
नारायणं नरसखं महितानुभावम् ।
यज्जन्मनि प्रमुदिता: कृततूर्यघोषा:
पुष्पोत्करान् प्रववृषुर्नुनुवु: सुरौघा: ॥२॥
दैत्यं सहस्रकवचं कवचै: परीतं
साहस्रवत्सरतपस्समराभिलव्यै: ।
पर्यायनिर्मिततपस्समरौ भवन्तौ
शिष्टैककङ्कटममुं न्यहतां सलीलम् ॥३॥
अन्वाचरन्नुपदिशन्नपि मोक्षधर्मं
त्वं भ्रातृमान् बदरिकाश्रममध्यवात्सी: ।
शक्रोऽथ ते शमतपोबलनिस्सहात्मा
दिव्याङ्गनापरिवृतं प्रजिघाय मारम् ॥४॥
कामो वसन्तमलयानिलबन्धुशाली
कान्ताकटाक्षविशिखैर्विकसद्विलासै: ।
विध्यन्मुहुर्मुहुरकम्पमुदीक्ष्य च त्वां
भीतस्त्वयाऽथ जगदे मृदुहासभाजा ॥५॥
भीत्याऽलमङ्गज वसन्त सुराङ्गना वो
मन्मानसं त्विह जुषध्वमिति ब्रुवाण: ।
त्वं विस्मयेन परित: स्तुवतामथैषां
प्रादर्शय: स्वपरिचारककातराक्षी: ॥६॥
सम्मोहनाय मिलिता मदनादयस्ते
त्वद्दासिकापरिमलै: किल मोहमापु: ।
दत्तां त्वया च जगृहुस्त्रपयैव सर्व-
स्वर्वासिगर्वशमनीं पुनरुर्वशीं ताम् ॥७॥
दृष्ट्वोर्वशीं तव कथां च निशम्य शक्र:
पर्याकुलोऽजनि भवन्महिमावमर्शात् ।
एवं प्रशान्तरमणीयतरावतारात्
त्वत्तोऽधिको वरद कृष्णतनुस्त्वमेव ॥८॥
दक्षस्तु धातुरतिलालनया रजोऽन्धो
नात्यादृतस्त्वयि च कष्टमशान्तिरासीत् ।
येन व्यरुन्ध स भवत्तनुमेव शर्वं
यज्ञे च वैरपिशुने स्वसुतां व्यमानीत् ॥९॥
क्रुद्धेशमर्दितमख: स तु कृत्तशीर्षो
देवप्रसादितहरादथ लब्धजीव: ।
त्वत्पूरितक्रतुवर: पुनराप शान्तिं
स त्वं प्रशान्तिकर पाहि मरुत्पुरेश ॥१०॥
Previous
कपिल उपदेशः
Next
ध्रुव चरितम्