वराह अवतारः

वराह अवतारः

Back to Narayaneeyam

Script

Translation

ॐ नमो नारायणाय
अथ श्रीमन्नारायणीयम्
द्वादशम् दशकम्
वराह अवतारः
स्वायम्भुवो मनुरथो जनसर्गशीलो दृष्ट्वा महीमसमये सलिले निमग्नाम् । स्रष्टारमाप शरणं भवदङ्घ्रिसेवा- तुष्टाशयं मुनिजनै: सह सत्यलोके ॥१॥
कष्टं प्रजा: सृजति मय्यवनिर्निमग्ना स्थानं सरोजभव कल्पय तत् प्रजानाम् । इत्येवमेष कथितो मनुना स्वयंभू: अम्भोरुहाक्ष तव पादयुगं व्यचिन्तीत् ॥२॥
हा हा विभो जलमहं न्यपिबं पुरस्ताद् अद्यापि मज्जति मही किमहं करोमि । इत्थं त्वदङ्घ्रियुगलं शरणं यतोऽस्य नासापुटात् समभव: शिशुकोलरूपी ।३॥
अङ्गुष्ठमात्रवपुरुत्पतित: पुरस्तात् भूयोऽथ कुम्भिसदृश: समजृम्भथास्त्वम् । अभ्रे तथाविधमुदीक्ष्य भवन्तमुच्चैः विस्मेरतां विधिरगात् सह सूनुभि: स्वै: ॥४॥
कोऽसावचिन्त्यमहिमा किटिरुत्थितो मे नासापुटात् किमु भवेदजितस्य माया । इत्थं विचिन्तयति धातरि शैलमात्र: सद्यो भवन् किल जगर्जिथ घोरघोरम् ॥५॥
तं ते निनादमुपकर्ण्य जनस्तप:स्था: सत्यस्थिताश्च मुनयो नुनुवुर्भवन्तम् । तत्स्तोत्रहर्षुलमना: परिणद्य भूयः तोयाशयं विपुलमूर्तिरवातरस्त्वम् ॥६॥
ऊर्ध्वप्रसारिपरिधूम्रविधूतरोमा प्रोत्क्षिप्तवालधिरवाङ्मुखघोरघोण: । तूर्णप्रदीर्णजलद: परिघूर्णदक्ष्णा स्तोतॄन् मुनीन् शिशिरयन्नवतेरिथ त्वम् ॥७॥
अन्तर्जलं तदनुसंकुलनक्रचक्रं भ्राम्यत्तिमिङ्गिलकुलं कलुषोर्मिमालम् । आविश्य भीषणरवेण रसातलस्थान् आकम्पयन् वसुमतीमगवेषयस्त्वम् ॥८॥
दृष्ट्वाऽथ दैत्यहतकेन रसातलान्ते संवेशितां झटिति कूटकिटिर्विभो त्वम् । आपातुकानविगणय्य सुरारिखेटान् दंष्ट्राङ्कुरेण वसुधामदधा: सलीलम् ॥९॥
अभ्युद्धरन्नथ धरां दशनाग्रलग्नम् मुस्ताङ्कुराङ्कित इवाधिकपीवरात्मा । उद्धूतघोरसलिलाज्जलधेरुदञ्चन् क्रीडावराहवपुरीश्वर पाहि रोगात् ॥१०॥