हिरण्याक्ष वधः
हिरण्याक्ष वधः
Script
Translation
Previous
वराह अवतारः
Next
कपिल अवतारः
ॐ नमो नारायणाय
अथ श्रीमन्नारायणीयम्
त्रयोदशम् दशकम्
हिरण्याक्ष वध:
हिरण्याक्षं तावद्वरद भवदन्वेषणपरं
चरन्तं सांवर्ते पयसि निजजङ्घापरिमिते ।
भवद्भक्तो गत्वा कपटपटुधीर्नारदमुनि:
शनैरूचे नन्दन् दनुजमपि निन्दंस्तव बलम् ॥१॥
स मायावी विष्णुर्हरति भवदीयां वसुमतीं
प्रभो कष्टं कष्टं किमिदमिति तेनाभिगदित: ।
नदन् क्वासौ क्वासाविति स मुनिना दर्शितपथे
भवन्तं सम्प्रापद्धरणिधरमुद्यन्तमुदकात् ॥२॥
अहो आरण्योऽयं मृग इति हसन्तं बहुतरैः
दुरुक्तैर्विध्यन्तं दितिसुतमवज्ञाय भगवन् ।
महीं दृष्ट्वा दंष्ट्राशिरसि चकितां स्वेन महसा
पयोधावाधाय प्रसभमुदयुङ्क्था मृधविधौ ॥३॥
गदापाणौ दैत्ये त्वमपि हि गृहीतोन्नतगदो
नियुद्धेन क्रीडन् घटघटरवोद्घुष्टवियता ।
रणालोकौत्सुक्यान्मिलति सुरसङ्घे द्रुतममुं
निरुन्ध्या: सन्ध्यात: प्रथममिति धात्रा जगदिषे ॥४॥
गदोन्मर्दे तस्मिंस्तव खलु गदायां दितिभुवो
गदाघाताद्भूमौ झटिति पतितायामहह! भो: ।
मृदुस्मेरास्यस्त्वं दनुजकुलनिर्मूलनचणं
महाचक्रं स्मृत्वा करभुवि दधानो रुरुचिषे ॥५॥
तत: शूलं कालप्रतिमरुषि दैत्ये विसृजति
त्वयि छिन्दत्येनत् करकलितचक्रप्रहरणात् ।
समारुष्टो मुष्ट्या स खलु वितुदंस्त्वां समतनोत्
गलन्माये मायास्त्वयि किल जगन्मोहनकरी: ॥६॥
भवच्चक्रज्योतिष्कणलवनिपातेन विधुते
ततो मायाचक्रे विततघनरोषान्धमनसम् ।
गरिष्ठाभिर्मुष्टिप्रहृतिभिरभिघ्नन्तमसुरं
स्वपादाङ्गुष्ठेन श्रवणपदमूले निरवधी: ॥७॥
महाकाय: सोऽयं तव चरणपातप्रमथितो
गलद्रक्तो वक्त्रादपतदृषिभि: श्लाघितहति: ।
तदा त्वामुद्दामप्रमदभरविद्योतिहृदया
मुनीन्द्रा: सान्द्राभि: स्तुतिभिरनुवन्नध्वरतनुम् ॥८॥
त्वचि छन्दो रोमस्वपि कुशगणश्चक्षुषि घृतं
चतुर्होतारोऽङ्घ्रौ स्रुगपि वदने चोदर इडा ।
ग्रहा जिह्वायां ते परपुरुष कर्णे च चमसा
विभो सोमो वीर्यं वरद गलदेशोऽप्युपसद: ॥९॥
मुनीन्द्रैरित्यादिस्तवनमुखरैर्मोदितमना
महीयस्या मूर्त्या विमलतरकीर्त्या च विलसन् ।
स्वधिष्ण्यं सम्प्राप्त: सुखरसविहारी मधुरिपो
निरुन्ध्या रोगं मे सकलमपि वातालयपते ॥१०॥
Previous
वराह अवतारः
Next
कपिल अवतारः