सृष्टि भेदाः

सृष्टि भेदाः

Back to Narayaneeyam

Script

Translation

ॐ नमो नारायणाय
अथ श्रीमन्नारायणीयम्
दशमम् दशकम्
सृष्टि भेदाः
वैकुण्ठ वर्धितबलोऽथ भवत्प्रसादात् अम्भोजयोनिरसृजत् किल जीवदेहान् । स्थास्नूनि भूरुहमयानि तथा तिरश्चां जातीर्मनुष्यनिवहानपि देवभेदान् ॥१॥
मिथ्याग्रहास्मिमतिरागविकोपभीतिः अज्ञानवृत्तिमिति पञ्चविधां स सृष्ट्वा । उद्दामतामसपदार्थविधानदूनः तेने त्वदीयचरणस्मरणं विशुद्ध्यै ॥२॥
तावत् ससर्ज मनसा सनकं सनन्दं भूय: सनातनमुनिं च सनत्कुमारम् । ते सृष्टिकर्मणि तु तेन नियुज्यमानाः त्वत्पादभक्तिरसिका जगृहुर्न वाणीम् ॥३॥
तावत् प्रकोपमुदितं प्रतिरुन्धतोऽस्य भ्रूमध्यतोऽजनि मृडो भवदेकदेश: । नामानि मे कुरु पदानि च हा विरिञ्चे- त्यादौ रुरोद किल तेन स रुद्रनामा ॥४॥
एकादशाह्वयतया च विभिन्नरूपं रुद्रं विधाय दयिता वनिताश्च दत्वा । तावन्त्यदत्त च पदानि भवत्प्रणुन्न: प्राह प्रजाविरचनाय च सादरं तम् ॥५॥
रुद्राभिसृष्टभयदाकृतिरुद्रसंघ- सम्पूर्यमाणभुवनत्रयभीतचेता: । मा मा प्रजा: सृज तपश्चर मङ्गलाये- त्याचष्ट तं कमलभूर्भवदीरितात्मा ॥६॥
तस्याथ सर्गरसिकस्य मरीचिरत्रिः तत्राङिगरा: क्रतुमुनि: पुलह: पुलस्त्य: । अङ्गादजायत भृगुश्च वसिष्ठदक्षौ श्रीनारदश्च भगवन् भवदंघ्रिदास: ॥७॥
धर्मादिकानभिसृजन्नथ कर्दमं च वाणीं विधाय विधिरङ्गजसंकुलोऽभूत् । त्वद्बोधितैस्सनकदक्षमुखैस्तनूजैः उद्बोधितश्च विरराम तमो विमुञ्चन् ॥८॥
वेदान् पुराणनिवहानपि सर्वविद्या: कुर्वन् निजाननगणाच्चतुराननोऽसौ । पुत्रेषु तेषु विनिधाय स सर्गवृद्धिम् अप्राप्नुवंस्तव पदाम्बुजमाश्रितोभूत् ॥९॥
जानन्नुपायमथ देहमजो विभज्य स्त्रीपुंसभावमभजन्मनुतद्वधूभ्याम् । ताभ्यां च मानुषकुलानि विवर्धयंस्त्वं गोविन्द मारुतपुराधिप रुन्धि रोगान् ॥१०॥