Vijnana Bhairava Tantra

Script

Translation

अथ श्री विज्ञानभैरव तन्त्रम्
श्री देव्युवाच ।
श्रुतं देव मया सर्वं रुद्रयामलसम्भवम् । त्रिकभेदमशेषेण सारात्सारविभागशः ॥१॥
अद्यापि न निवृत्तो मे संशयः परमेश्वर । किं रूपं तत्त्वतो देव शब्दराशिकलामयम् ॥२॥
किं वा नवात्मभेदेन भैरवे भैरवाकृतौ । त्रिशिरोभेदभिन्नं वा किं वा शक्तित्रयात्मकम् ॥३॥
नादबिन्दुमयं वापि किं चन्द्रार्धनिरोधिकाः । चक्रारूढमनच्कं वा किं वा शक्तिस्वरूपकम् ॥४॥
परापरायाः सकलमपरायाश्च वा पुनः । पराया यदि तद्वत्स्यात्परत्वं तद्विरुध्यते ॥५॥
न हि वर्णविभेदेन देहभेदेन वा भवेत् । परत्वं निष्कलत्वेन सकलत्वे न तद्भवेत् ॥६॥
प्रसादं कुरु मे नाथ निःशेषं छिन्द्धि संशयम् ।
भैरव उवाच ।
साधु साधु त्वया पृष्टं तन्त्रसारमिदं प्रिये ॥७॥
गूहनीयतमं भद्रे तथापि कथयामि ते । यत्किंचित्सकलं रूपं भैरवस्य प्रकीर्तितम् ॥८॥
तदसारतया देवि विज्ञेयं शक्रजालवत् । मायास्वप्नोपमं चैव गन्धर्वनगरभ्रमम् ॥९॥
ध्यानार्थं भ्रान्तबुद्धीनां क्रियाडम्बरवर्तिनाम् । केवलं वर्णितं पुंसां विकल्पनिहतात्मनाम् ॥१०॥
तत्त्वतो न नवात्मासौ शब्दराशिर्न भैरवः । न चासौ त्रिशिरा देवो न च शक्तित्रयात्मकः ॥११॥
नादबिन्दुमयो वापि न चन्द्रार्धनिरोधिकाः । न चक्रक्रमसम्भिन्नो न च शक्तिस्वरूपकः ॥१२॥
अप्रबुद्धमतीनां हि एता बालविभीषिकाः । मातृमोदकवत्सर्वं प्रवृत्त्यर्थमुदाहृतम् ॥१३॥
दिक्कालकलनोन्मुक्ता देशोद्देशाविशेषिणी । व्यपदेष्टुमशक्यासावकथ्या परमार्थतः ॥१४॥
अन्तःस्वानुभवानन्दा विकल्पोन्मुक्तगोचरा । यावस्था भरिताकारा भैरवी भैरवात्मनः ॥१५॥
तद्वपुस्तत्त्वतो ज्ञेयं विमलं विश्वपूरणम् । एवंविधे परे तत्त्वे कः पूज्यः कश्च तृप्यति ॥१६॥
एवंविधा भैरवस्य यावस्था परिगीयते । सा परा पररूपेण परा देवी प्रकीर्तिता ॥१७॥
शक्तिशक्तिमतोर्यद्वदभेदः सर्वदा स्थितः । अतस्तद्धर्मधर्मित्वात्परा शक्तिः परात्मनः ॥१८॥
न वह्नेर्दाहिका शक्तिर्व्यतिरिक्ता विभाव्यते । केवलं ज्ञानसत्तायां प्रारम्भोऽयं प्रवेशने ॥१९॥
शक्त्यवस्थाप्रविष्टस्य निर्विभागेन भावना । तदासौ शिवरूपी स्यात्शैवी मुखमिहोच्यते ॥२०॥
यथालोकेन दीपस्य किरणैर्भास्करस्य च । ज्ञायते दिग्विभागादि तद्वच्छक्त्या शिवः प्रिये ॥२१॥
श्री देव्युवाच ।
देवदेव त्रिशूलाङ्क कपालकृतभूषण । दिग्देशकालशून्या च व्यपदेशविवर्जिता ॥२२॥
यावस्था भरिताकारा भैरवस्योपलभ्यते । कैरुपायैर्मुखं तस्य परादेवी कथं भवेत् । यथा सम्यगहं वेद्मि तथा मे ब्रूहि भैरव ॥२३॥
भैरव उवाच ।
ऊर्ध्वे प्राणो ह्यधो जीवो विसर्गात्मा परोच्चरेत् । उत्पत्तिद्वितयस्थाने भरणाद्भरिता स्थितिः ॥२४॥
मरुतोऽन्तर्बहिर्वापि वियद्युग्मानिवर्तनात् । भैरव्या भैरवस्येत्थं भैरवि व्यज्यते वपुः ॥२५॥
न व्रजेन्न विशेच्छक्तिर्मरुद्रूपा विकासिते । निर्विकल्पतया मध्ये तया भैरवरूपता ॥२६॥
कुम्भिता रेचिता वापि पूरिता वा यदा भवेत् । तदन्ते शान्तनामासौ शक्त्या शान्तः प्रकाशते ॥२७॥
आमूलात्किरणाभासां सूक्ष्मात्सूक्ष्मतरात्मिकम् । चिन्तयेत्तां द्विषट्कान्ते श्याम्यन्तीं भैरवोदयः ॥२८॥
उद्गच्छन्तीं तडिद्रूपां प्रतिचक्रं क्रमात्क्रमम् । ऊर्ध्वं मुष्टित्रयं यावत्तावदन्ते महोदयः ॥२९॥
क्रमद्वादशकं सम्यग्द्वादशाक्षरभेदितम् । स्थूलसूक्ष्मपरस्थित्या मुक्त्वा मुक्त्वान्ततः शिवः ॥३०॥
तयापूर्याशु मूर्धान्तं भङ्क्त्वा भ्रूक्षेपसेतुना । निर्विकल्पं मनः कृत्वा सर्वोर्ध्वे सर्वगोद्गमः ॥३१॥
शिखिपक्षैश्चित्ररूपैर्मण्डलैः शून्यपञ्चकम् । ध्यायतोऽनुत्तरे शून्ये प्रवेशो हृदये भवेत् ॥३२॥
ईदृशेन क्रमेणैव यत्र कुत्रापि चिन्तना । शून्ये कुड्ये परे पात्रे स्वयं लीना वरप्रदा ॥३३॥
कपालान्तर्मनो न्यस्य तिष्ठन्मीलितलोचनः । क्रमेण मनसो दार्ढ्यात् लक्षयेल्लक्ष्यमुत्तमम् ॥३४॥
मध्यनाडी मध्यसंस्था बिससूत्राभरूपया । ध्यातान्तर्व्योमया देव्या तया देवः प्रकाशते ॥३५॥
कररुद्धदृगस्त्रेण भ्रूभेदाद्द्वाररोधनात् । दृष्टे बिन्दौ क्रमाल्लीने तन्मध्ये परमा स्थितिः ॥३६॥
धामान्तःक्षोभसम्भूतसूक्ष्माग्नितिलकाकृतिम् । बिन्दुं शिखान्ते हृदये लयान्ते ध्यायतो लयः ॥३७॥
अनाहते पात्रकर्णेऽभग्नशब्दे सरिद्द्रुते । शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति ॥३८॥
प्रणवादिसमुच्चारात्प्लुतान्ते शून्यभावानात् । शून्यया परया शक्त्या शून्यतामेति भैरवि ॥३९॥
यस्य कस्यापि वर्णस्य पूर्वान्तावनुभावयेत् । शून्यया शून्यभूतोऽसौ शून्याकारः पुमान् भवेत् ॥४०॥
तन्त्र्यादिवाद्यशब्देषु दीर्घेषु क्रमसंस्थितेः । अनन्यचेताः प्रत्यन्ते परव्योमवपुर्भवेत् ॥४१॥
पिण्डमन्त्रस्य सर्वस्य स्थूलवर्णक्रमेण तु । अर्धेन्दुबिन्दुनादान्तः शून्योच्चाराद्भवेच्छिवः ॥४२॥
निजदेहे सर्वदिक्कं युगपद्भावयेद्वियत् । निर्विकल्पमनास्तस्य वियत्सर्वं प्रवर्तते ॥४३॥
पृष्ठशून्यं मूलशून्यं युगपद्भावयेच्च यः । शरीरनिरपेक्षिण्या शक्त्या शून्यमना भवेत् ॥४४॥
पृष्ठशून्यं मूलशून्यं हृच्छून्यं भावयेत्स्थिरम् । युगपन्निर्विकल्पत्वान्निर्विकल्पोदयस्ततः ॥४५॥
तनूदेशे शून्यतैव क्षणमात्रं विभावयेत् । निर्विकल्पं निर्विकल्पो निर्विकल्पस्वरूपभाक् ॥४६॥
सर्वं देहगतं द्रव्यं वियद्व्याप्तं मृगेक्षणे । विभावयेत्ततस्तस्य भावना सा स्थिरा भवेत् ॥४७॥
देहान्तरे त्वग्विभागं भित्तिभूतं विचिन्तयेत् । न किंचिदन्तरे तस्य ध्यायन्नध्येयभाग्भवेत् ॥४८॥
हृद्याकाशे निलीनाक्षः पद्मसम्पुटमध्यगः । अनन्यचेताः सुभगे परं सौभाग्यमाप्नुयात् ॥४९॥
सर्वतः स्वशरीरस्य द्वादशान्ते मनोलयात् । दृढबुद्धेर्दृढीभूतं तत्त्वलक्ष्यं प्रवर्तते ॥५०॥
यथा तथा यत्र तत्र द्वादशान्ते मनः क्षिपेत् ॥ प्रतिक्षणं क्षीणवृत्तेर्वैलक्षण्यं दिनैर्भवेत् ॥५१॥
कालाग्निना कालपदादुत्थितेन स्वकं पुरम् । प्लुष्टं विचिन्तयेदन्ते शान्ताभासस्तदा भवेत् ॥५२॥
एवमेव जगत्सर्वं दग्धं ध्यात्वा विकल्पतः । अनन्यचेतसः पुंसः पुम्भावः परमो भवेत् ॥५३॥
स्वदेहे जगतो वापि सूक्ष्मसूक्ष्मतराणि च । तत्त्वानि यानि निलयं ध्यात्वान्ते व्यज्यते परा ॥५४॥
पीनां च दुर्बलां शक्तिं ध्यात्वा द्वादशगोचरे । प्रविश्य हृदये ध्यायन्मुक्तः स्वातन्त्र्यमाप्नुयात् ॥५५॥
भुवनाध्वादिरूपेण चिन्तयेत्क्रमशोऽखिलम् । स्थूलसूक्ष्मपरस्थित्या यावदन्ते मनोलयः ॥५६॥
अस्य सर्वस्य विश्वस्य पर्यन्तेषु समन्ततः । अध्वप्रक्रियया तत्त्वं शैवं ध्यत्वा महोदयः ॥५७॥
विश्वमेतन्महादेवि शून्यभूतं विचिन्तयेत् । तत्रैव च मनो लीनं ततस्तल्लयभाजनम् ॥५८॥
घटादिभाजने दृष्टिं भित्तीस्त्यक्त्वा विनिक्षिपेत् । तल्लयं तत्क्षणाद्गत्वा तल्लयात्तन्मयो भवेत् ॥५९॥
निर्वृक्षगिरिभित्त्यादिदेशे दृष्टिं विनिक्षिपेत् । विलीने मानसे भावे वृत्तिक्षीणः प्रजायते ॥६०॥
उभयोर्भावयोर्ज्ञाने ध्यात्वा मध्यं समाश्रयेत् । युगपच्च द्वयं त्यक्त्वा मध्ये तत्त्वं प्रकाशते ॥६१॥
भावे न्यक्ते निरुद्धा चिन्नैव भावान्तरं व्रजेत् । तदा तन्मध्यभावेन विकसत्यति भावना ॥६२॥
सर्वं देहं चिन्मयं हि जगद्वा परिभावयेत् । युगपन्निर्विकल्पेन मनसा परमोदयः ॥६३॥
वायुद्वयस्य संघट्टादन्तर्वा बहिरन्ततः । योगी समत्वविज्ञानसमुद्गमनभाजनम् ॥६४॥
सर्वं जगत्स्वदेहं वा स्वानन्दभरितं स्मरेत् । युगपत्स्वामृतेनैव परानन्दमयो भवेत् ॥६५॥
कुहनेन प्रयोगेन सद्य एव मृगेक्षणे । समुदेति महानन्दो येन तत्त्वं प्रकाशते ॥६६॥
सर्वस्रोतोनिबन्धेन प्राणशक्त्योर्ध्वया शनैः । पिपीलस्पर्शवेलायां प्रथते परमं सुखम् ॥६७॥
वह्नेर्विषस्य मध्ये तु चित्तं सुखमयं क्षिपेत् । केवलं वायुपूर्णं वा स्मरानन्देन युज्यते ॥६८॥
शक्तिसंगमसंक्षुब्धशक्त्यावेशावसानिकम् । यत्सुखं ब्रह्मतत्त्वस्य तत्सुखं स्वाक्यमुच्यते ॥६९॥
लेहनामन्थनाकोटैः स्त्रीसुखस्य भरात्स्मृतेः । शक्त्यभावेऽपि देवेशि भवेदानन्दसम्प्लवः ॥७०॥
आनन्दे महति प्राप्ते दृष्टे वा बान्धवे चिरात् । आनन्दमुद्गतं ध्यात्वा तल्लयस्तन्मना भवेत् ॥७१॥
जग्धिपानकृतोल्लासरसानन्दविजृम्भणात् । भावयेद्भरितावस्थां महानन्दस्ततो भवेत् ॥७२॥
गीतादिविषयास्वादासमसौख्यैकतात्मनः । योगिनस्तन्मयत्वेन मनोरूढेस्तदात्मता ॥७३॥
यत्र यत्र मनस्तुष्टिर्मनस्तत्रैव धारयेत् । तत्र तत्र परानन्दस्वारूपं सम्प्रवर्तते ॥७४॥
अनागतायां निद्रायां प्रणष्टे बाह्यगोचरे । सावस्था मनसा गम्या परा देवी प्रकाशते ॥७५॥
तेजसा सूर्यदीपादेराकाशे शबलीकृते । दृष्टिर्निवेश्या तत्रैव स्वात्मरूपं प्रकाशते ॥७६॥
करङ्किण्या क्रोधनया भैरव्या लेलिहानया । खेचर्या दृष्टिकाले च परावाप्तिः प्रकाशते ॥७७॥
मृद्वासने स्फिजैकेन हस्तपादौ निराश्रयम् । निधाय तत्प्रसङ्गेन परा पूर्णा मतिर्भवेत् ॥७८॥
उपविश्यासने सम्यग्बाहू कृत्वार्धकुञ्चितौ । कक्षव्योम्नि मनः कुर्वन् शममायाति तल्लयात् ॥७९॥
स्थूलरूपस्य भावस्य स्तब्धां दृष्टिं निपात्य च । अचिरेण निराधारं मनः कृत्वा शिवं व्रजेत् ॥८०॥
मध्यजिह्वे स्फारितास्ये मध्ये निक्षिप्य चेतनाम् । होच्चारं मनसा कुर्वंस्ततः शान्ते प्रलीयते ॥८१॥
आसने शयने स्थित्वा निराधारं विभावयन् । स्वदेहं मनसि क्षीणे क्षणात्क्षीणाशयो भवेत् ॥८२॥
चलासने स्थितस्याथ शनैर्वा देहचालनात् । प्रशान्ते मानसे भावे देवि दिव्यौघमाप्नुयात् ॥८३॥
आकाशं विमलं पश्यन् कृत्वा दृष्टिं निरन्तराम् । स्तब्धात्मा तत्क्षणाद्देवि भैरवं वपुराप्नुयात् ॥८४॥
लीनं मूर्ध्नि वियत्सर्वं भैरवत्वेन भावयेत् । तत्सर्वं भैरवाकारतेजस्तत्त्वं समाविशेत् ॥८५॥
किञ्चिज्ज्ञातं द्वैतदायि बाह्यालोकस्तमः पुनः । विश्वादि भैरवं रूपं ज्ञात्वानन्तप्रकाशभृत् ॥८६॥
एवमेव दुर्निशायां कृष्णपक्षागमे चिरम् । तैमिरं भावयन् रूपं भैरवं रूपमेष्यति ॥८७॥
एवमेव निमील्यादौ नेत्रे कृष्णाभमग्रतः । प्रसार्य भैरवं रूपं भावयंस्तन्मयो भवेत् ॥८८॥
यस्य कस्येन्द्रियस्यापि व्याघाताच्च निरोधतः । प्रविष्टस्याद्वये शून्ये तत्रैवात्मा प्रकाशते ॥८९॥
अबिन्दुमविसर्गं च अकारं जपतो महान् । उदेति देवि सहसा ज्ञानौघः परमेश्वरः ॥९०॥
वर्णस्य सविसर्गस्य विसर्गान्तं चितिं कुरु । निराधारेण चित्तेन स्पृशेद्ब्रह्म सनातनम् ॥९१॥
व्योमाकारं स्वमात्मानं ध्यायेद्दिग्भिरनावृतम् । निराश्रया चितिः शक्तिः स्वरूपं दर्शयेत्तदा ॥९२॥
किंचिदङ्गं विभिद्यादौ तीक्ष्णसूच्यादिना ततः । तत्रैव चेतनां युक्त्वा भैरवे निर्मला गतिः ॥९३॥
चित्ताद्यन्तःकृतिर्नास्ति ममान्तर्भावयेदिति । विकल्पानामभावेन विकल्पैरुज्झितो भवेत् ॥९४॥
माया विमोहिनी नाम कलायाः कलनं स्थितम् । इत्यादिधर्मं तत्त्वानां कलयन्न पृथग्भवेत् ॥९५॥
झगितीच्छां समुत्पन्नामवलोक्य शमं नयेत् । यत एव समुद्भूता ततस्तत्रैव लीयते ॥९६॥
यदा ममेच्छा नोत्पन्ना ज्ञानं वा कस्तदास्मि वै । तत्त्वतोऽहम् तथाभूतस्तल्लीनस्तन्मना भवेत् ॥९७॥
इच्छायामथवा ज्ञाने जाते चित्तं निवेशयेत् । आत्मबुद्ध्यानन्यचेतास्ततस्तत्त्वार्थदर्शनम् ॥९८॥
निर्निमित्तं भवेज्ज्ञानं निराधारं भ्रमात्मकम् । तत्त्वतः कस्यचिन्नैतदेवम्भावी शिवः प्रिये ॥९९॥
चिद्धर्मा सर्वदेहेषु विशेषो नास्ति कुत्रचित् । अतश्च तन्मयं सर्वं भावयन् भवजिज्जनः ॥१००॥
कामक्रोधलोभमोहमदमात्सर्यगोचरे । बुद्धिं निस्तिमितां कृत्वा तत्तत्त्वमवशिष्यते ॥१०१॥
इन्द्रजालमयं विश्वं व्यस्तं वा चित्रकर्मवत् । भ्रमद्वा ध्यायतः सर्वं पश्यतश्च सुखोद्गमः ॥१०२॥
न चित्तं निक्षिपेद्दुःखे न सुखे वा परिक्षिपेत् । भैरवि ज्ञायतां मध्ये किं तत्त्वमवशिष्यते ॥१०३॥
विहाय निजदेहस्थं सर्वत्रास्मीति भावयन् । दृढेन मनसा दृष्ट्या नान्येक्षिण्या सुखी भवेत् ॥१०४॥
घटादौ यच्च विज्ञानमिच्छाद्यं वा ममान्तरे । नैव सर्वगतं जातं भावयन्निति सर्वगः ॥१०५॥
ग्राह्यग्राहकसंवित्तिः सामान्या सर्वदेहिनाम् । योगिनां तु विशेषोऽस्ति सम्बन्धे सावधानता ॥१०६॥
स्ववदन्यशरीरेऽपि संवित्तिमनुभावयेत् । अपेक्षां स्वशरीरस्य त्यक्त्वा व्यापी दिनैर्भवेत् ॥१०७॥
निराधारं मनः कृत्वा विकल्पान्न विकल्पयेत् । तदात्मपरमात्मत्वे भैरवो मृगलोचने ॥१०८॥
सर्वज्ञः सर्वकर्ता च व्यापकः परमेश्वरः । स एवाहं शैवधर्मा इति दार्ढ्याच्छिवो भवेत् ॥१०९॥
जलस्येवोर्मयो वह्नेर्ज्वालाभङ्ग्यः प्रभा रवेः । ममैव भैरवस्यैता विश्वभङ्ग्यो विभेदिताः ॥११०॥
भ्रान्त्वा भ्रान्त्वा शरीरेण त्वरितं भुवि पातनात् । क्षोभशक्तिविरामेण परा संजायते दशा ॥१११॥
आधारेष्वथवाऽशक्त्याऽज्ञानाच्चित्तलयेन वा । जातशक्तिसमावेशक्षोभान्ते भैरवं वपुः ॥११२॥
सम्प्रदायमिमं देवि शृणु सम्यग्वदाम्यहम् । कैवल्यं जायते सद्यो नेत्रयोः स्तब्धमात्रयोः ॥११३॥
संकोचं कर्णयोः कृत्वा ह्यधोद्वारे तथैव च । अनच्कमहलं ध्यायन् विशेद्ब्रह्म सनातनम् ॥११४॥
कूपादिके महागर्ते स्थित्वोपरि निरीक्षणात् । अविकल्पमतेः सम्यग्सद्यश्चित्तलयः स्फुटम् ॥११५॥
यत्र यत्र मनो याति बाह्ये वाभ्यन्तरेऽपि वा । तत्र तत्र शिवावास्था व्यापकत्वात्क्व यास्यति ॥११६॥
यत्र यत्राक्षमार्गेण चैतन्यं व्यज्यते विभोः । तस्य तन्मात्रधर्मित्वाच्चिल्लयाद्भरितात्मता ॥११७॥
क्षुताद्यन्ते भये शोके गह्वरे वा रणाद्द्रुते । कुतूहलेक्षुधाद्यन्ते ब्रह्मसत्तामयी दशा ॥११८॥
वस्तुषु स्मर्यमाणेषु दृष्टे देशे मनस्त्यजेत् । स्वशरीरं निराधारं कृत्वा प्रसरति प्रभुः ॥११९॥
क्वचिद्वस्तुनि विन्यस्य शनैर्दृष्टिं निवर्तयेत् । तज्ज्ञानं चित्तसहितं देवि शून्यालायो भवेत् ॥१२०॥
भक्त्युद्रेकाद्विरक्तस्य यादृशी जायते मतिः । सा शक्तिः शाङ्करी नित्यं भावयेत्तां ततः शिवः ॥१२१॥
वस्त्वन्तरे वेद्यमाने सर्ववस्तुषु शून्यता । तामेव मनसा ध्यात्वा विदितोऽपि प्रशाम्यति ॥१२२॥
किंचिज्ज्ञैर्या स्मृता शुद्धिः सा शुद्धिः शम्भुदर्शने । न शुचिर्ह्यशुचिस्तस्मान्निर्विकल्पः सुखी भवेत् ॥१२३॥
सर्वत्र भैरवो भावः सामान्येष्वपि गोचरः । न च तद्व्यतिरेकेण परोऽस्तीत्यद्वया गतिः ॥१२४॥
समः शत्रौ च मित्रे च समो मानावमानयोः ॥ ब्रह्मणः परिपूर्णत्वातिति ज्ञात्वा सुखी भवेत् ॥१२५॥
न द्वेषं भावयेत्क्वापि न रागं भावयेत्क्वचित् । रागद्वेषविनिर्मुक्तौ मध्ये ब्रह्म प्रसर्पति ॥१२६॥
यदवेद्यं यदग्राह्यं यच्छून्यं यदभावगम् । तत्सर्वं भैरवं भाव्यं तदन्ते बोधसम्भवः ॥१२७॥
नित्ये निराश्रये शून्ये व्यापके कलनोज्झिते । बाह्याकाशे मनः कृत्वा निराकाशं समाविशेत् ॥१२८॥
यत्र यत्र मनो याति तत्तत्तेनैव तत्क्षणम् । परित्यज्यानवस्थित्या निस्तरङ्गस्ततो भवेत् ॥१२९॥
भया सर्वं रवयति सर्वदो व्यापकोऽखिले । इति भैरवशब्दस्य सन्ततोच्चारणाच्छिवः ॥१३०॥
अहं ममेदमित्यादि प्रतिपत्तिप्रसङ्गतः । निराधारे मनो याति तद्ध्यानप्रेरणाच्छमी ॥१३१॥
नित्यो विभुर्निराधारो व्यापकश्चाखिलाधिपः । शब्दान् प्रतिक्षणं ध्यायन् कृतार्थोऽर्थानुरूपतः ॥१३२॥
अतत्त्वमिन्द्रजालाभमिदं सर्वमवस्थितम् । किं तत्त्वमिन्द्रजालस्य इति दार्ढ्याच्छमं व्रजेत् ॥१३३॥
आत्मनो निर्विकारस्य क्व ज्ञानं क्व च वा क्रिया । ज्ञानायत्ता बहिर्भावा अतः शून्यमिदं जगत् ॥१३४॥
न मे बन्धो न मोक्षो मे भीतस्यैता विभीषिकाः । प्रतिबिम्बमिदं बुद्धेर्जलेष्विव विवस्वतः ॥१३५॥
इन्द्रियद्वारकं सर्वं सुखदुःखादिसंगमम् । इतीन्द्रियाणि संत्यज्य स्वस्थः स्वात्मनि वर्तते ॥१३६॥
ज्ञानप्रकाशकं सर्वं सर्वेणात्मा प्रकाशकः । एकमेकस्वभावत्वात्ज्ञानं ज्ञेयं विभाव्यते ॥१३७॥
मानसं चेतना शक्तिरात्मा चेति चतुष्टयम् । यदा प्रिये परिक्षीणं तदा तद्भैरवं वपुः ॥१३८॥
निस्तरङ्गोपदेशानां शतमुक्तं समासतः । द्वादशाभ्यधिकं देवि यज्ज्ञात्वा ज्ञानविज्जनः ॥१३९॥
अत्र चैकतमे युक्तो जायते भैरवः स्वयम् । वाचा करोति कर्माणि शापानुग्रहकारकः ॥१४०॥
अजरामरतामेति सोऽणिमादिगुणान्वितः । योगिनीनां प्रियो देवि सर्वमेलापकाधिपः ॥१४१॥
जीवन्नपि विमुक्तोऽसौ कुर्वन्नपि न लिप्यते । इदं यदि वपुर्देव परायाश्च महेश्वर ॥१४२॥
एवमुक्तव्यवस्थायां जप्यते को जपश्च कः । ध्यायते को महानाथ पूज्यते कश्च तृप्यति ॥१४३॥
हूयते कस्य वा होमो यागः कस्य च किं कथम् । एषात्र प्रक्रिया बाह्या स्थूलेष्वेव मृगेक्षणे ॥१४४॥
भूयो भूयः परे भावे भावना भाव्यते हि या । जपः सोऽत्र स्वयं नादो मन्त्रात्मा जप्य ईदृशः ॥१४५॥
ध्यानं हि निश्चला बुद्धिर्निराकारा निराश्रया । न तु ध्यानं शरीराक्षिमुखहस्तादिकल्पना ॥१४६॥
पूजा नाम न पुष्पाद्यैर्या मतिः क्रियते दृढा । निर्विकल्पे महाव्योम्नि सा पूजा ह्यादराल्लयः ॥१४७॥
अत्रैकतमयुक्तिस्थे योत्पद्येत दिनाद्दिनम् । भरिताकारता सात्र तृप्तिरत्यन्तपूर्णता ॥१४८॥
महाशून्यालये वह्नौ भूताक्षविषयादिकम् । हूयते मनसा सार्धं स होमश्चेतनास्रुचा ॥१४९॥
यागोऽत्र परमेशानि तुष्टिरानन्दलक्षणा । क्षपणात्सर्वपापानां त्राणात्सर्वस्य पार्वति ॥१५०॥
रुद्रशक्तिसमावेशस्तत्क्षेत्रं भावना परा । अन्यथा तस्य तत्त्वस्य का पूजा काश्च तृप्यति ॥१५१॥
स्वतन्त्रानन्दचिन्मात्रसारः स्वात्मा हि सर्वतः । आवेशनं तत्स्वरूपे स्वात्मनः स्नानमीरितम् ॥१५२॥
यैरेव पूज्यते द्रव्यैस्तर्प्यते वा परापरः । यश्चैव पूजकः सर्वः स एवैकः क्व पूजनम् ॥१५३॥
व्रजेत्प्राणो विशेज्जीव इच्छया कुटिलाकृतिः । दीर्घात्मा सा महादेवी परक्षेत्रं परापरा ॥१५४॥
अस्यामनुचरन् तिष्ठन्महानन्दमयेऽध्वरे । तया देव्या समाविष्टः परं भैरवमाप्नुयात् ॥१५५॥
षट्शतानि दिवा रात्रौ सहस्राण्येकविंशतिः । जपो देव्याः समुद्दिष्टः सुलभो दुर्लभो जडैः ॥१५६॥
इत्येतत्कथितं देवि परमामृतमुत्तमम् । एतच्च नैव कस्यापि प्रकाश्यं तु कदाचन ॥१५७॥
परशिष्ये खले क्रूरे अभक्ते गुरुपादयोः । निर्विकल्पमतीनां तु वीराणामुन्नतात्मनाम् ॥१५८॥
भक्तानां गुरुवर्गस्य दातव्यं निर्विशङ्कया । ग्रामो राज्यं पुरं देशः पुत्रदारकुटुम्बकम् ॥१५९॥
सर्वमेतत्परित्यज्य ग्राह्यमेतन्मृगेक्षणे । किमेभिरस्थिरैर्देवि स्थिरं परमिदं धनम् । प्राणा अपि प्रदातव्या न देयं परमामृतम् ॥१६०॥
श्री देव्युवाच ।
देवदेव माहदेव परितृप्तास्मि शङ्कर । रुद्रयामलतन्त्रस्य सारमद्यावधारितम् ॥१६१॥
सर्वशक्तिप्रभेदानां हृदयं ज्ञातमद्य च । इत्युक्त्वानन्दिता देवि कण्ठे लग्ना शिवस्य तु ॥१६२॥
इति श्री विज्ञानभैरव तन्त्रम् सम्पूर्णम्