सूक्त ५८
ऋग्वेदः / संहिता / शाकल / मण्डल ९ / सूक्त ५८
Script
Translation
Previous
सूक्त ५७
Next
सूक्त ५९
४ अवत्सारः काश्यपः । पवमानः सोमः । गायत्री ।
तर॒त्स म॒न्दी धा॑वति॒ धारा॑ सु॒तस्यान्ध॑सः ।
तर॒त्स म॒न्दी धा॑वति ॥१॥
उ॒स्रा वे॑द॒ वसू॑नां॒ मर्त॑स्य दे॒व्यव॑सः ।
तर॒त्स म॒न्दी धा॑वति ॥२॥
ध्व॒स्रयोः॑ पुरु॒षन्त्यो॒रा स॒हस्रा॑णि दद्महे ।
तर॒त्स म॒न्दी धा॑वति ॥३॥
आ ययो॑स्त्रिं॒शतं॒ तना॑ स॒हस्रा॑णि च॒ दद्म॑हे ।
तर॒त्स म॒न्दी धा॑वति ॥४॥
Previous
सूक्त ५७
Next
सूक्त ५९