सूक्त ५७
ऋग्वेदः / संहिता / शाकल / मण्डल ९ / सूक्त ५७
Script
Translation
Previous
सूक्त ५६
Next
सूक्त ५८
४ अवत्सारः काश्यपः । पवमानः सोमः । गायत्री ।
प्र ते॒ धारा॑ अस॒श्चतो॑ दि॒वो न य॑न्ति वृ॒ष्टयः॑ ।
अच्छा॒ वाजं॑ सह॒स्रिण॑म् ॥१॥
अ॒भि प्रि॒याणि॒ काव्या॒ विश्वा॒ चक्षा॑णो अर्षति ।
हरि॑स्तुञ्जा॒न आयु॑धा ॥२॥
स म॑र्मृजा॒न आ॒युभि॒रिभो॒ राजे॑व सुव्र॒तः ।
श्ये॒नो न वंसु॑ षीदति ॥३॥
स नो॒ विश्वा॑ दि॒वो वसू॒तो पृ॑थि॒व्या अधि॑ ।
पु॒ना॒न इ॑न्द॒वा भ॑र ॥४॥
Previous
सूक्त ५६
Next
सूक्त ५८