सूक्त ४६
ऋग्वेदः / संहिता / शाकल / मण्डल ९ / सूक्त ४६
Script
Translation
Previous
सूक्त ४५
Next
सूक्त ४७
६ अयास्य आङ्गिरसः । पवमानः सोमः । गायत्री ।
असृ॑ग्रन्दे॒ववी॑त॒येऽत्या॑सः॒ कृत्व्या॑ इव ।
क्षर॑न्तः पर्वता॒वृधः॑ ॥१॥
परि॑ष्कृतास॒ इन्द॑वो॒ योषे॑व॒ पित्र्या॑वती ।
वा॒युं सोमा॑ असृक्षत ॥२॥
ए॒ते सोमा॑स॒ इन्द॑वः॒ प्रय॑स्वन्तश्च॒मू सु॒ताः ।
इन्द्रं॑ वर्धन्ति॒ कर्म॑भिः ॥३॥
आ धा॑वता सुहस्त्यः शु॒क्रा गृ॑भ्णीत म॒न्थिना॑ ।
गोभिः॑ श्रीणीत मत्स॒रम् ॥४॥
स प॑वस्व धनंजय प्रय॒न्ता राध॑सो म॒हः ।
अ॒स्मभ्यं॑ सोम गातु॒वित् ॥५॥
ए॒तं मृ॑जन्ति॒ मर्ज्यं॒ पव॑मानं॒ दश॒ क्षिपः॑ ।
इन्द्रा॑य मत्स॒रं मद॑म् ॥६॥
Previous
सूक्त ४५
Next
सूक्त ४७