सूक्त ४५
ऋग्वेदः / संहिता / शाकल / मण्डल ९ / सूक्त ४५
Script
Translation
Previous
सूक्त ४४
Next
सूक्त ४६
६ अयास्य आङ्गिरसः । पवमानः सोमः । गायत्री ।
स प॑वस्व॒ मदा॑य॒ कं नृ॒चक्षा॑ दे॒ववी॑तये ।
इन्द॒विन्द्रा॑य पी॒तये॑ ॥१॥
स नो॑ अर्षा॒भि दू॒त्यं१ त्वमिन्द्रा॑य तोशसे ।
दे॒वान्त्सखि॑भ्य॒ आ वर॑म् ॥२॥
उ॒त त्वाम॑रु॒णं व॒यं गोभि॑रञ्ज्मो॒ मदा॑य॒ कम् ।
वि नो॑ रा॒ये दुरो॑ वृधि ॥३॥
अत्यू॑ प॒वित्र॑मक्रमीद्वा॒जी धुरं॒ न याम॑नि ।
इन्दु॑र्दे॒वेषु॑ पत्यते ॥४॥
समी॒ सखा॑यो अस्वर॒न्वने॒ क्रीळ॑न्त॒मत्य॑विम् ।
इन्दुं॑ ना॒वा अ॑नूषत ॥५॥
तया॑ पवस्व॒ धार॑या॒ यया॑ पी॒तो वि॒चक्ष॑से ।
इन्दो॑ स्तो॒त्रे सु॒वीर्य॑म् ॥६॥
Previous
सूक्त ४४
Next
सूक्त ४६