सूक्त २२
ऋग्वेदः / संहिता / शाकल / मण्डल ९ / सूक्त २२
Script
Translation
Previous
सूक्त २१
Next
सूक्त २३
७ काश्यपोऽसितो देवलो वा । पवमानः सोमः । गायत्री ।
ए॒ते सोमा॑स आ॒शवो॒ रथा॑ इव॒ प्र वा॒जिनः॑ ।
सर्गाः॑ सृ॒ष्टा अ॑हेषत ॥१॥
ए॒ते वाता॑ इवो॒रवः॑ प॒र्जन्य॑स्येव वृ॒ष्टयः॑ ।
अ॒ग्नेरि॑व भ्र॒मा वृथा॑ ॥२॥
ए॒ते पू॒ता वि॑प॒श्चितः॒ सोमा॑सो॒ दध्या॑शिरः ।
वि॒पा व्या॑नशु॒र्धियः॑ ॥३॥
ए॒ते मृ॒ष्टा अम॑र्त्याः ससृ॒वांसो॒ न श॑श्रमुः ।
इय॑क्षन्तः प॒थो रजः॑ ॥४॥
ए॒ते पृ॒ष्ठानि॒ रोद॑सोर्विप्र॒यन्तो॒ व्या॑नशुः ।
उ॒तेदमु॑त्त॒मं रजः॑ ॥५॥
तन्तुं॑ तन्वा॒नमु॑त्त॒ममनु॑ प्र॒वत॑ आशत ।
उ॒तेदमु॑त्त॒माय्य॑म् ॥६॥
त्वं सो॑म प॒णिभ्य॒ आ वसु॒ गव्या॑नि धारयः ।
त॒तं तन्तु॑मचिक्रदः ॥७॥
Previous
सूक्त २१
Next
सूक्त २३