सूक्त २१
ऋग्वेदः / संहिता / शाकल / मण्डल ९ / सूक्त २१
Script
Translation
Previous
सूक्त २०
Next
सूक्त २२
७ काश्यपोऽसितो देवलो वा । पवमानः सोमः । गायत्री ।
ए॒ते धा॑व॒न्तीन्द॑वः॒ सोमा॒ इन्द्रा॑य॒ घृष्व॑यः ।
म॒त्स॒रासः॑ स्व॒र्विदः॑ ॥१॥
प्र॒वृ॒ण्वन्तो॑ अभि॒युजः॒ सुष्व॑ये वरिवो॒विदः॑ ।
स्व॒यं स्तो॒त्रे व॑य॒स्कृतः॑ ॥२॥
वृथा॒ क्रीळ॑न्त॒ इन्द॑वः स॒धस्थ॑म॒भ्येक॒मित् ।
सिन्धो॑रू॒र्मा व्य॑क्षरन् ॥३॥
ए॒ते विश्वा॑नि॒ वार्या॒ पव॑मानास आशत ।
हि॒ता न सप्त॑यो॒ रथे॑ ॥४॥
आस्मि॑न्पि॒शङ्ग॑मिन्दवो॒ दधा॑ता वे॒नमा॒दिशे॑ ।
यो अ॒स्मभ्य॒मरा॑वा ॥५॥
ऋ॒भुर्न रथ्यं॒ नवं॒ दधा॑ता॒ केत॑मा॒दिशे॑ ।
शु॒क्राः प॑वध्व॒मर्ण॑सा ॥६॥
ए॒त उ॒ त्ये अ॑वीवश॒न्काष्ठां॑ वा॒जिनो॑ अक्रत ।
स॒तः प्रासा॑विषुर्म॒तिम् ॥७॥
Previous
सूक्त २०
Next
सूक्त २२